पूर्वम्: ३।१।७१
अनन्तरम्: ३।१।७३
 
सूत्रम्
संयसश्च॥ ३।१।७२
काशिका-वृत्तिः
संयसश् च ३।१।७२

सोपसर्गार्थ आरम्भः। सम्पूर्वाच् च यसेः वा श्यन् प्रत्ययो भवति। संयस्यति, संयसति।
बाल-मनोरमा
संयसश्च ८९०, ३।१।७२

संयसश्च। सूत्रद्वमिदम्। श्यन् वा स्यादिति। शेषपूरणमिदम्। "दिवादिभ्यः श्यन्" इत्यतो, "वा भ्राशे"त्यतश्च तदनुवृत्तेरिति भावः। अनुपसर्गाद्यसः श्यन्वा स्यादिति प्रथमसूत्रार्थः। सोपसर्गात्तु नित्य एव श्यन्, अनुपसर्गादिति पर्युदासात्। संपूर्वाद्यसेर्नित्यमेव श्यनः प्राप्तौ द्वितीयसूत्रम्। रव्युष विभागे। अयमिति। दिवादिगण एव पुषादिभ्यः प्रागयं धातुः पठित इत्यर्थः। पौनरुक्त्यमाशङ्क्याअह-- अर्थबेदेन त्वङर्थं पठ()ते इति। विभागात्मके अर्थविशेषे एव पुषाद्यङर्थमिह पुनः पाठ #इत्यर्थः। अव्युषदिति। "व्युष दाहे" इति पूर्वं पठितस्य तु सिजेव। अव्योषीत्। ओष्ठ()आदिरिति। दन्त्योष्ठ()आदिर्दन्त्योष्मान्तोऽयमिति केचिन्मन्यन्त इत्यर्थः। अयकार इति। दन्तोष्ठ()आदिर्दन्त्योष्मान्तो यो दातुरुक्तः स एवायं यकाररहित इत्यन्ये मन्यन्त इत्यर्थः। "अयकार"मिति पाठे क्रियाविशेषणम्। प्लुष दाहे। ननु दिवादिगणे परस्मैपदिषु पुषादिभ्यः प्रागस्य पाठः क्वचित् दृस्यते तत्र पौनरुक्त्यशङ्कां परिहरति-- पूर्वत्र पाठः सिजर्थ इति।पुषादावेव पाठे सति अङेव श्रूयेत नतु सिच्। पुषादेः प्रागपि पाठे तु तस्य अङभावात्सिच् श्रूयेत। तथा च सिचः कदाचिच्छ्रवणार्थः पूर्वं पाठ इत्यर्थः। आहुरित्यस्वरसोद्भावनम्। तद्बीजं दर्शयति-- तद्भ्वादीति। तत् = दिवादिगणे पुषादिभ्यः पूर्वमस्य पठनं, भ्वादिपाठेनैव संपन्नप्रयोजनकमिति सुष्ठु वक्तुं शक्यमित्यर्थः। एवं च भ्वादिपाठाच्छब्विकरमो, लुङि सिचः श्रवणं च सिध्यति। पुषादौ पाठात्तु श्यन्विकरणः, अङ् च सिध्यति। अतो दिवादिगणे पुषादिभ्यः प्रागस्य पाठो व्यर्थ एवेति भावः। एतदेवाभिप्रेत्य मूले दिवादिगणे पुषादिगणात्प्राक् "प्लुष दाहे" इति न पठितमिति बोध्यम्। मसी परिणामे इति। ईदित्त्वं "()आईदितः"इत्येतदर्थम्। मस्यति। समी इत्येके इति। सम्यति। भृशु भ्रंशु। द्वितीयधातोराह---अनिदितामिति। युप रुप लुप। धातुवृत्त्यादिविरोधादुदित्पाठो लेखकप्रमादायातः। इह पाठस्त्विति। क्षुभिनभितुभीनां इह दिवादिगणे पाठस्य श्यनेव प्रयोजनमित्यर्थः। वस्तुतस्तु पुषादेः प्रागेव एषां त्रयाणां पाठो युक्त इति भावः। ञि मिदा। अमिददिति। ननु भ्वाद्यन्तर्गणे द्युतादौ "ञि मिदा स्नेहने" इत्यात्मनेपदिषु पठितः। लुङि तु "द्युद्भ्यो लुङी"त्यत्र परस्मपैदविकल्प उक्तः। द्युताद्यङ् तु परस्मैपद एव, न तु तङि। एवं च द्यातादिपाठादेव परस्मैपदपक्षे अङि अमिददिति, तङ#इ तु अङभावे अमेदिष्टेति सिद्धम्। तथा च पुषादावस्य पाठो व्यर्थः। तद्बहिर्दिवादौ पाठादेव श्यन्सिद्धेरित्याशङ्क्ये-- द्युतादिपाठादेवेत्यादिना, सिद्धे इत्यन्तेन। तामिमां शङ्कां परिहरति-- इह पाठोऽमेदीदिति मा भूदितीति। पुषादावस्य पाठोऽमेदीदिति व्यावृत्त्यर्थ इत्यर्थः। पुषादिभ्यः प्रागेव दिवादावस्य पाठे तु तस्माल्लुङि अङसंभवादमेदीदिति स्यादिति भावः। रनन्वेवं सति भवाद्यन्तर्गणे द्युतादावस्य पाठो व्यर्थः, द्यातादिभ्यो बहिरेवात्मनेपदिषु पठ()ताम्। एवं च अमेदिष्टेति सिद्धम्। इह पुषादौ पाठात्तु अमिददिति सिद्धमित्याशङ्क्येष्टापत्त्या परिहरति-- बहिरेवेति। "सूचितः" इतिपाठे तु सुतरामुचित इति व्याख्येयम्। ञि क्ष्विदेत्यादि। व्यक्तम्। इति दिवादयः।

॥ इति बालमनोरमायाम् दिवादयः॥

*****अथ द्वन्द्वः।*****