पूर्वम्: ३।१।७३
अनन्तरम्: ३।१।७५
 
सूत्रम्
श्रुवः शृ च॥ ३।१।७४
काशिका-वृत्तिः
श्रुवः शृ च ३।१।७४

श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययम् आदेशो भवति। शृणोति, शृणुतः, शृ̄ण्वन्ति।
बाल-मनोरमा
श्रुवः शृ च २२३, ३।१।७४

श्रुवः शृ च। "शृ" इति लुप्तप्रथमाकम्। चकारेण "स्वादिभ्यः श्नु"रिति सूत्रस्थः श्नुः समुच्चीयते। तदाह--श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति। शपोऽपवाद इति। अनेन शब्विषये कत्र्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता। श्नोर्हित्त्वादिति। "सार्वधातुकमपि"दित्यनेनेति भावः। शृणोतीति। तिपमाश्रित्य श्नोर्गुणः। तसादीनं ङित्त्वात् श्नोर्न गुणः। तदाह--शृणुत इति।

तत्त्व-बोधिनी
श्रुवः शृ च १९५, ३।१।७४

श्रुवः शृ च। यद्ययं श्रुधातुः स्वादौ पठ()एत तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः।