पूर्वम्: ३।१।८१
अनन्तरम्: ३।१।८३
 
सूत्रम्
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च॥ ३।१।८२
काशिका-वृत्तिः
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश् च ३।१।८२

आद्याश्चत्वारो धातवः सौत्राः, स्कुञाप्रवणे, एतेभ्यः श्ना प्रत्ययो भवति, श्नुः च। स्तभ्नाति, स्तभ्नोति। स्तुभ्नाति, स्तुभ्नोति। स्कभ्नाति, स्कभ्नोति। स्कुभ्नाति, स्कुभ्नोति। स्कुनाति, स्कुनोति। उदित्त्वप्रतिज्ञानात् सौत्राणाम् अपि धातूनां सर्वार्थत्वं विज्ञायते, न एतद् विकरणविषयत्वम् एव।
लघु-सिद्धान्त-कौमुदी
स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च ६८९, ३।१।८२

चात् श्ना। स्कुनोति, स्कुनाति। स्कुनुते, स्कुनीते। चुस्काव, चुस्कुवे। स्कोता। अस्कौषीत्, अस्कोष्ट॥ स्तन्भ्वादयश्चत्वारः सौत्राः। सर्वे रोधनार्थाः परस्मैपदिनः॥
न्यासः
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च। , ३।१।८२

चकारः श्नानुकर्षणार्थः। "स्तभ्नाति" इति। आदौ "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपः। श्नुश्नाभ्यां सह निर्देशात् तद्विषयतैवैषां धातूनामिति कस्यचिद्भ्रान्ति स्यात्। अतस्तन्निराकर्त्तुमाह-- "उदित्त्वप्रतिपादनात्" इत्यादि। एषां ह्रुकार इत्संज्ञकः प्रतिज्ञायते, तस्य क्त्वाप्रत्यय इड्()विकल्पः फलम्। यदि त एतद्विकरणविषयाः स्युः, उदित्करणमनर्थकं स्यात्। तस्मादुदित्करणप्रतिज्ञानात् सर्वार्थत्वमेषामवसीयते। अर्थशब्दोऽयं विषयवाची। सर्वविषयत्वमित्यर्थः॥ "पुषाण, मुषाण" इति। विध्यादौ लोट्, "सेह्र्रपिच्च" ३।४।८७, क्र्यादित्वाच् श्ना, तस्यानेन शानच्। चकारोऽन्तोदात्तार्थः। "अतो हेः" ६।४।१०५ इति हेर्लुक्। "क्रीणीहि" इति। "ई हल्यघोः" ६।४।११३ इतीत्त्वम्। ननु च श्नाप्रत्ययस्य प्रकृतत्वात् स एवेह स्थानित्वेन विज्ञास्यते, तत् किमर्थः "श्नः" इति निर्देश इत्याह-- "श्न इति स्थानिनिर्देशः" इत्यादि। शानच्शब्दोऽयमादेश इत्येष संप्रत्ययो यथा स्थादित्येवमर्थः श्न इति निर्देशः। किं पुनः कारणमसति तस्मिन्नेव संप्रत्ययो न स्यादित्यत आह-- "प्रत्ययान्तरं हि" इत्यादि। सर्वे धातवोऽन्यगणपठिता अपि विषयो यस्य तत्तथोक्तम्।"श्नः" इत्यस्मिन् ह्रसति स्थानिर्देशे श्नाप्रत्ययस्यानुवृत्तिर्न ज्ञायेत्। ततश्च सर्वेभ्यो धातुभ्यो हलन्तेभ्यः शानजपवादः प्रत्ययो भवति तस्य च शानजादेशः, तदा मिदेर्गुणो मा भूत्; इतरथा ह्रयं गुणः प्रतिषेधविषय आरभ्यमाणो यथेह भवति-- मेध्यतीति, तथेहापि स्यात्-- मिदान इति। पुनः शित्करणे तु "सार्वधातुकमपित्" १।२।४ इति ङित्त्वमपि पुनः प्रवत्र्तते। तेन मिदेः प्रतषेधविषयेऽपि गुण आरभ्यमाण इह न भवति॥
बाल-मनोरमा
स्तन्भुसतुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च ३८३, ३।१।८२

सौत्रा इति। नोपधा इत्यपि ज्ञेयम्। नलोप इति। "अनिदिता"मित्यनेनेति भावः। विष्टभ्नोतीति। "स्तन्भे"रिति षत्वम्। अवष्टभ्नोतीति। "अवच्चालम्बनाविर्दूययो"रिति षत्वम्। अवतष्टम्भेति। "स्थादिषवभ्यासेने"ति षत्वम्। व्यष्टभदिति। "प्राक्सितादिति षत्वम्।