पूर्वम्: ३।२।१०३
अनन्तरम्: ३।२।१०५
 
सूत्रम्
जीर्यतेरतृन्॥ ३।२।१०४
काशिका-वृत्तिः
जीर्यतेरतृन् ३।२।१०४

भूते ३।२।७४ इति वर्तते। जीर्यतेः अतृन् प्रत्ययो भवति भूते। जरन्, जरन्तौ, जरन्तः। वा असरूपेण निष्ठा, जीर्णः, जीर्णवानिति।
न्यासः
जीर्यतेरतृन्। , ३।२।१०४

"जरन्" इति। अतृनो नित्त्वादाद्युदात्तत्वं भवति। "उगिदचाम्" ७।१।७० इति नुम्॥
बाल-मनोरमा
जीर्यतेरतृन् ८९५, ३।२।१०४

जीर्यतेरतृन्। भूते इत्येवेति। भूतार्थवृत्तेर्जृ()धातोरतृन् स्यादित्यर्थः। ऋकारनकारावितौ। अत्प्रत्ययः शिष्यते। जरन्निति।उगित्त्वान्नुम्। जीर्ण इति। "ऋत इत्"। रपरत्वम्। " हलि च" इति दीर्घः। निष्ठानत्वम्।

तत्त्व-बोधिनी
जीर्यतेरतृन् ७३६, ३।२।१०४

जरन्निति। ऋकारस्य गुणे रपरोऽकारः। "उगितदचा"मिति नुम्। संयोगान्तलोपस्याऽसिद्धत्वान्न दीर्घः।