पूर्वम्: ३।२।१११
अनन्तरम्: ३।२।११३
 
सूत्रम्
अभिज्ञावचने लृट्॥ ३।२।११२
काशिका-वृत्तिः
अभिज्ञावचने लृट् ३।२।११२

अभिज्ञा स्मृतिः। तद्वचने उपपदे भूतानद्यतने लृट् प्रत्ययो भवति। लङो ऽपवादः अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः। वचनग्रहणं पर्यायार्थम्, अभिजानासि, स्मरसि, बुद्यसे, चेतयसे इति।
न्यासः
अभिज्ञावचने लृट्। , ३।२।११२

"वत्स्यामः" इति। लृट्, मस्, "स्यतासी लृलुटोः" ३।१।३३ इति स्य, पूर्ववत् सकारस्य तत्वम्, "अतो दीर्घो यञि" ७।३।१०१ इति दीर्घः। "वचनग्रहणम्" इत्यादि। असति हि वचनग्रहणेऽभिज्ञाशब्द एवोपपदे स्यात्। त()स्मस्तु यावन्तोऽभिज्ञावचनास्तेषु सर्वेषु भवति॥
बाल-मनोरमा
अभिज्ञावचने लृट् ५९७, ३।२।११२

अभिज्ञावचने लृट्। अभिज्ञा = स्मृतिः, सा उच्यते बोध्यते अनेनेति विग्रहः। तदाह--स्मृतिबोधिन्युपपदे इति। स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः। "भूते" इत्यधिकृतम्। "अद्यतने ल"ङित्यतोऽनद्यतने इत्यनुवर्तते। तदाह--- भूतानद्यतने इति। लङ इति। "अनद्यतने ल"ङित्यस्यापवाद इत्यर्थः। स्मरसीति। हे कृष्ण ! गोकुले अवसामेति यत्तत्स्मरसीत्यर्थः। अत्र वाक्यार्थः कर्म। कृतं गोकुलवासं स्मरसीति यावत्। एवमिति। समरसीति पदयोग इव बुध्यसे इत्यादिस्मृतिबोधकपदयोगेऽपि लृडित्यर्थः। ननु बुध्यत्यादेः स्मृत्त्विएन रूपेण स्मृत्यर्थकत्वाऽभावात्कथमिहि लृडित्यत आह-- तेषामपीति। पर्यवसानगत्या स्मृतिबोधकत्वात्तद्योगेऽपि लृट्। एतदर्थमेव वचनग्रहणमिति भावः।

तत्त्व-बोधिनी
अभिज्ञावचने लृट् ४९१, ३।२।११२

अभिज्ञा। भूते इत्यधिक्रियते। "अनद्यतने ल"डित्यतोऽनद्यतन इति वर्तते। अभिज्ञा - स्मृतिः, सा उच्यते बोध्यतेऽनेनेति विग्रहः। तदाह--स्मृतिबोधिनीत्यादि। वत्स्याम इति। अवसामेत्यर्थः। "पश्य मृगो धावती"त्यत्र वाक्यार्थरूपमृगकर्तृकधावनमिव स्मरसीत्यत्र गोकुलाधिकरणकाऽस्मत्कर्तृकभूतानद्यतनवासो वाक्यार्थः कर्म। कृष्णेति संबोधनं स्मरणक्रियायां विशेषणम्। तथाच पूर्वोक्तनिवासकर्कं कृष्णसंबोध्यकं स्मरणमिति फलितोऽर्थः।