पूर्वम्: ३।२।१२४
अनन्तरम्: ३।२।१२६
 
प्रथमावृत्तिः

सूत्रम्॥ सम्बोधने च॥ ३।२।१२५

पदच्छेदः॥ सम्बोधने ७।१ लटः ६।१ १२४ शतृ-शानचौ १।२ १२४ वर्त्तमाने ७।१ १२४ धातोः ५।१ ?

अर्थः॥

सम्बोधने च विषये धातोः लटः स्थाने शतृशानचौ आदेशौ भवतः।

उदाहरणम्॥

हे पचन्, हे पचमान।
काशिका-वृत्तिः
सम्बोधने च ३।२।१२५

प्रथमासमनाधिकरणार्थ आरम्भः। सम्भोधने च विषये लटः शतृशानचौ प्रत्ययौ भवतः। हे पचन्। हे पचमान।
न्यासः
सम्बोधने च। , ३।२।१२५

"प्र()थमासमानाधिकरणार्थ आरम्भः" इति। अवधारणमिह द्रष्टव्यम्। पूर्वयोगो ह्रप्रथमासमानाधिकरणार्थः, क्वचित् प्रथमासमानाधिकरणार्थश्च; अयं तु प्रथमासमानाधिकरणार्थं एव। यदि तर्हि पूर्वसूत्रं प्रथमासमानाधिकरणार्थमपि, तह्र्रेषंसति तौ यथा अन्यत्र प्रथमासमानाधिकरणेऽपि भवतस्तथा सम्बोधनेऽपि भविष्यत इत्यपार्थकम्? नापार्थकम्; तस्यैव प्रपञ्चार्थत्वात्। "हे पचन्" इति। "न ङिसम्बुद्ध्योः" ८।२।८ इति नलोपप्रतिषेधान्नलोपाभावः। "हे पचमान" इति। "एङ ह्यस्वात् सम्बुद्धेः" ६।१।६७ इति सुलोपः॥
बाल-मनोरमा
संबोधने च ९०४, ३।२।१२५

संबोधने च। "शतृशानचा"विति शेषः। प्रथमासमानाधिकरणार्थ आरम्भः। पूर्सूत्रस्थपुनर्लड्ग्रहणस्य अधकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थमिदम्।