पूर्वम्: ३।२।१२६
अनन्तरम्: ३।२।१२८
 
सूत्रम्
तौ सत्॥ ३।२।१२७
काशिका-वृत्तिः
तौ सत् ३।२।१२७

तौ शतृशानचौ सत्संज्ञौ भवतः। तौग्रहणम् उपाद्यसंसर्गार्थम्। शतृशानज्मात्रस्य संज्ञा भवति। ब्राह्मणस्य कुर्वन्। ब्राह्मणस्य कुर्वाणः। ब्राह्मणस्य करिष्यन्। ब्राह्मणस्य करिष्यमाणः। सत्प्रदेशाः पूरणगुणसुहितार्थसद्। अव्ययतव्यसमानाधिकरणेन २।२।११ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तौ सत् ८३७, ३।२।१२७

तौ शतृशानचौ सत्संज्ञौ स्तः॥
बाल-मनोरमा
तौ सत् ९०८, ३।२।१२७

तौ सत्। "लटः शतृशानचौ" इति सूत्रोपात्तौ शतृशानचौ तच्छब्दः परामृशति। तदाह-- तौ शतृशानचाविति।