पूर्वम्: ३।२।१२८
अनन्तरम्: ३।२।१३०
 
सूत्रम्
ताच्छील्यवयोवचनशक्तिषु चानश्॥ ३।२।१२९
काशिका-वृत्तिः
ताच्छीयवयोवचनशक्तिषु चानश् ३।२।१२९

ताच्छील्यं तत्स्वभावता। वयः शरीरावस्था यौवनादिः। शक्तिः सामर्थ्यम्। ताच्छील्यादिषु धातोः चानश् प्रत्ययो भवति। ताच्छील्ये तावत् कतीह मुण्डयमानाः। कतीह भूषयमाणाः। वयोवचने कतीह कवचं पर्यस्यमानाः। कतीह शिखण्डं वहमानाः। शक्तौ कतीह निघ्नानाः। कतीह पचमानः।
न्यासः
ताच्छील्यवयोवचनशक्तिषु चानश्। , ३।२।१२९

"मण्ड()मानाः" इति। "मडि भूषायाम्" (धा।पा।३२१), इदित्त्()वान्नुम्। हेतुमण्णिच्। "भूषयमाणाः" इति। "भूष अलङ्कारे" (धा।पा।६८२), चुरादिणिच्। "कवचं पर्यस्यमानाः"इति। दिवादित्वाच्छ्यन्। तदेव वयो गम्यते तत्र स्थिताः कवचं पर्यस्यन्ते। कवचम् = सन्नाहम्। "शिखण्डं वहमानाः"इति। अत्रापि तथाविधं वयो गम्यते यत्र वत्र्तमानाः शिखण्डं वहन्ति। शिखण्ण्टः = चूडा। वचनग्रहणं वैचित्र्यार्थम्, विनापि हि तेन वयसि गम्यमाने प्रत्ययो लभ्यत एव, यथा च "वयसि च" ३।२।१० इत्यत्र। "निघ्नानाः" इति। हननशक्तिरिति गम्यते॥
बाल-मनोरमा
ताच्छील्यवयोवचनशक्तिषु चानश् ९११, ३।२।१२९

ताच्छील्य। चानशि शचावितौ। भोगं भुञ्जान इति। भोगशील इत्यर्थः। कवचं विभ्राण इति। यौवनबालदिति भावः। शत्रुं निघ्ना इति। निहन्तुं शक्त इत्यर्थः। अतः परत्वाऽभावान्न मुक्। चानशो लादेशत्वाऽभावादनामत्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः।

तत्त्व-बोधिनी
ताच्छील्यवयोवचनशक्तिषु चानश् ७४८, ३।२।१२९

ताच्छील्य। वचनग्रहणं स्पष्टार्थम्।चानशो लादेशत्वाऽभावेनाऽत्मनेपदत्वाऽभावात्परमैपदिभ्योऽपि विधानमिति ध्वनयन्नुदाहरति--निघ्नान इति। "गमहने"त्युपधालोपः।