पूर्वम्: ३।२।१४४
अनन्तरम्: ३।२।१४६
 
सूत्रम्
प्रे लपसृद्रुमथवदवसः॥ ३।२।१४५
काशिका-वृत्तिः
प्रे लपसृद्रुमथवदवसः ३।२।१४५

प्रे उपपदे लपादिभ्यः घिनुण् भवति। प्रलपी। प्रसारी। प्रद्रावी। प्रमाथी। प्रवादी। प्रवासी। वसः इति वस निवासे इत्यस्य ग्रहणं नाच्छादनार्थस्य, लुग्विकरणत्वात्।
न्यासः
प्रे लपसृद्रुमथवदवसः। , ३।२।१४५

"प्रलापी, प्रसारी" इति। "लप व्यक्तायां वाचि"(धा।पा।४०२), "सृ गतौ" (९३५)। "प्रद्रावी, प्रमाथी"इति। "दु द्रु गतौ" (धा।पा।९४४ ९४५), "{मथे विलोडने-धा।पा।} मध विलोडने" (धा।पा।८४८)। "नाच्छादनार्थस्य" इति। न "वस आच्छादने" (धा।पा।१०२३)इत्येतस्य॥
बाल-मनोरमा
प्रे लपसृद्रुमथवदवसः ९२७, ३।२।१४५

प्रे लप। लप, सृ, द्रु, मथ, वद, वस्, एषां षण्णां द्वनद्वात्पञ्चमी। प्रे उपपदे एभ्यो घिनुण् स्यात्ताच्छील्यादिष्वित्यर्थः।

तत्त्व-बोधिनी
प्रे लपसृद्रुमथवदवसः ७६१, ३।२।१४५

प्रे लप। रप लप व्यक्तायां वाचि। प्रमाथीति। मथे विलोडने।