पूर्वम्: ३।२।१५१
अनन्तरम्: ३।२।१५३
 
सूत्रम्
न यः॥ ३।२।१५२
काशिका-वृत्तिः
न यः ३।२।१५२

यकारान्तात् धतोः युच् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। क्नूयिता। क्ष्मायिता।
न्यासः
न यः। , ३।२।१५२

"पूर्वेण" इति। "अनुदात्तेतश्च हलादेः" ३।२।१४९ इत्यादिना सिद्धत्वात्। अथ "अय वय रय णय गतौ"(धा।पा।४७४,४७५,४८२,४८०) इत्यस्माद्धातोर्युचो विधानार्थञ्चैतत्कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्;यस्मान्नयतेः "अनुदात्तेतश्च" ३।२।१४९ इत्यादिनैव सिद्धत्वात्। तस्मात् प्रतिषेधार्थमिदम्। "क्नयिता, क्ष्मायिता" इति। "क्नूयी शब्द {उन्दने च-धा।पा।} उन्दे च" (धा।पा।४८५), "क्ष्मायी विधूनने" (धा।पा।४८६)॥
बाल-मनोरमा
न यः ९३४, ३।२।१५२

न यः। "य" इति पञ्चम्यनतं धातुविशेषणं। तदन्तविधिः। तदाह-- यकारान्तादिति। क्नूयिता। क्ष्मायितेति। "क्नुयी शब्दे उन्दन चट "क्ष्मायी विधूनने"। अनुदात्तेतश्च हलादे"रिति युच् निषिध्यते। तृनेव भवति।

तत्त्व-बोधिनी
न यः ७६८, ३।२।१५२

न यः। अय वय पय भय चय तय णय गताविति पठितस्य नयतेर्नाऽयं निर्देशः, अनुदात्तेत्त्वादेव युचः सिद्धत्वात्, किंतु नेति पृथक् पदमिति मत्वाऽ‌ऽह-- यकारान्तादिति। क्नूयिता क्ष्मायितेति। क्नूयी शब्दे उन्दे च, क्ष्मायी विधूनने।