पूर्वम्: ३।२।१५३
अनन्तरम्: ३।२।१५५
 
सूत्रम्
लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्॥ ३।२।१५४
काशिका-वृत्तिः
लषपतपदस्थाभूवृषहनकमगमशृ̄भ्य उकञ् ३।२।१५४

लषाऽदिभ्यो धातुभः तच्छीलादिषु कर्तृषु उकञ् प्रत्ययो भवति। उपलाषुकं वृषलसङ्गतम्। प्रपातुका गर्भा भवन्ति। उपपादुकं सत्त्वम्। उपस्थायुका एनं पशवो भवन्ति। प्रभावुकमन्नं भवति। प्रवर्षुकाः पर्जन्याः। आघातुकं पाकलिकस्य मूत्रम्। कामुका एनं स्त्रियो भवन्ति। आगामुकं वारान्सीं रक्ष आहुः। किंशारुकं तीक्ष्णमाहुः।
न्यासः
लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्। , ३।२।१५४

"{उपस्थायुकाः-काशिका} उपस्थायुकः" इति। "आतो युक्" ७।३।३३ इत्यादिना युक्। "{प्रवर्षुकाः-काशिका} प्रवर्षुकः"इति। "वृषु मृषु सेचने"(धा।पा।७०६,७०७) इति। "कामुकाः"इति। "कमु कान्तौ"(धा।पा।४४३)। "नोदात्तोपदेश"(७।३।३४) इत्यादिना वृद्धिप्रतिषेधे प्राप्तेऽनाचमेरित्यत्र "चमिकमिवमीनामिति वक्तव्यम्" (वा।८४४) इति वृद्धिरेव भवति। "{किंशारुकं-काशिका} शारुकः"इति। "शृ हिंसायाम्" (धा।पा।१४८८)। अपपूर्वाल्लषेः "अपे#ऐ च लषः"३।२।१४४ इति धिनुण् भवति। उक्तं हि प्राक्-- ताच्छीलिकेषु "ग्लाजिस्थश्च क्सनुः" ३।२।१३९ इति वचनसामथ्र्यात्। गमेश्छन्दसि "आदृगम"३।२।१७१ इत्यादिना किकिनावपि भवतः। भाषायामपि;"भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः (वा।२८४) इत्युपसंख्यानात्। कमेः "नमिकम्पि" ३।२।१६७ इत्यादिना रप्रत्ययः॥
बाल-मनोरमा
लषपतपदस्थाभूवृषहनकमगमशृ?भ्य उकञ् ९३६, ३।२।१५४

लषपत। एभ्यो दशभ्य उकञ् स्यात्तच्छीलादिष्वर्थेषु। इत्यादीति। पादुकः। आतो युक्। स्थायुकः। भावुकः। वर्षुकः। घातुकः। "हनस्तः" इति तत्वम्। "हो हन्तेति" कुत्वम्। कामुकः। गामुकः। शारुकः।