पूर्वम्: ३।२।१६०
अनन्तरम्: ३।२।१६२
 
सूत्रम्
भञ्जभासमिदो घुरच्॥ ३।२।१६१
काशिका-वृत्तिः
भञ्जभासमिदो घुरच् ३।२।१६१

भञ्ज भास मिद इत्येतेभ्यो घुरच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु भङ्गुरं काष्ठम्। घित्वात कुत्वम्। भासुरं ज्योतिः। मेदुरः पशुः। भञ्जेः कर्मकर्तरि प्रत्ययः स्वभावात्।
न्यासः
भञ्जभासमिदो घुरच्। , ३।२।१६१

"{भञ्ज आमर्दने"(धा।पा।१४५३), "भासृ दीप्तौ"(धा।पा।६२४), "ञिमिदा {स्नेहने-धा।पा।} स्नेहनमोचनयोः"(धा।पा।१२४३)। "भङगुरम्िति। "चजोः कु घिण्ण्यतोः" ७।३।५२ इति कुत्वम्। "कर्मकत्र्तरि प्रत्ययः" इति। भज्यते स्वयमेवेत्यर्थः। कुतः पुनः कर्मकत्र्तरि प्रत्यो लभ्यत इत्यत आह--"स्वभावात्" इति। प्रकृत्यैव प्रत्ययः कर्मकत्र्तरिमभिधत्ते, न कर्त्तृमात्रम्। अतः कर्मकत्र्तर्येव॥
बाल-मनोरमा
भञ्जभासमिदो घुरच् ९४३, ३।२।१६१

भञ्जभास। भञ्ज, भास, मिद्, एषां द्वन्द्वात्पञ्चमी। एभ्यो घुरच् स्ात्तच्छीलादिष्वित्यर्थः। घचावितौ। भङ्गुर इति। "चजो"रिति कुत्वम्।

तत्त्व-बोधिनी
भञ्जभासमिदो घुरच् ७७५, ३।२।१६१

भङ्गुर इति। "चजो"रिति कुत्वम्। अभिधानस्वभावाद्भञ्जेः कर्मकर्तर्येवेत्याहुः।