पूर्वम्: ३।२।३७
अनन्तरम्: ३।२।३९
 
सूत्रम्
प्रियवशे वदः खच्॥ ३।२।३८
काशिका-वृत्तिः
प्रियवशे वदः खच् ३।२।३८

प्रिय वश इत्येतयोः करम्णोः उपपदयोः वदेः धातोः खच् प्रत्ययो भवति। प्रियं वदति इति प्रियंवदः। वशंवदः। चकारः खचि ह्रस्वः ६।४।९४ इति विशेषणार्थः। खकारो मुमर्थः। प्रत्ययान्तरकरणमुत्तरार्थम्। खच्प्रकरणे गमेः सुप्युपसङ्ख्यानम्। मितङ्गमो हस्ती। मितङ्गमा हस्तिनी। विहायसो विह च। विहायसा गच्छति विहङ्गमः। खच्च डिद्वा वक्तव्यः। विहङ्गः, विहङ्गमः। डे च विहायसो विहादेशो वक्तव्यः। विहगः।
लघु-सिद्धान्त-कौमुदी
प्रियवशे वदः खच् ८०१, ३।२।३८

प्रियंवदः। वशंवदः॥
न्यासः
प्रियवशे वदः खच्। , ३।२।३८

"चकारः "खचिह्यस्वः" इति विशेषणार्थः"इति। "खे ह्यस्वः" इत्युच्यमाने खश्यपि स्यात्। ननु चैकानुबन्धकग्रहणे न द्व्यनुबन्धकस्येति (व्या।प।५२) न भविष्यति? एवं तर्हि परिभाषाश्रयणाच्चकारकरणमेव लघ्विति च मन्यते। ननु च प्रियंवदो वशंवद इति खश्यपि सिद्ध्यति, किमर्थं प्रत्ययान्तरकरणमित्याह-- "प्रत्ययान्तरकरणमुत्तरार्थम्िति। "द्विषत्परयोस्तापेः" ३।२।३९ इत्यत्र खचि ह्यस्वस्तापेर्यथा स्यात्। णिलोपश्चेत्याद्यर्थं प्रत्ययान्तरं क्रियते। अथोत्तरत्रैव खच् कस्मान्न क्रियते? अत्रापि खज्भवतीति विज्ञानार्थम्। तेन गमेरपि सुप्युपपदे खच् सिद्धो भवति। यदि "खच्()प्रकरणे गमेः सुप्यपसंख्यानम्" (वा।२४७), तत्रोपसंख्यानशब्दस्य प्रतिपादनार्थं प्रत्ययान्तरं क्रियते। प्रतिपादनन्त्विदमेव वेदितव्यम्। "विहायसो विह च" इति। गमेर्विहायःशब्द उपपदे खच्प्रत्ययः, तत्सन्नियोगेन विहायःशब्दस्य विहादेशः। "खच्च डिद्वा वक्तव्यः" इति। डित्त्वाट्टिलोपः स्यात्, "विहायसो विह च" (वा।२४८) इत्यतोऽस्य भेदेन पाठात्। डित्त्वस्यानित्यत्वज्ञापानार्थम्; अन्यथा विहङ्गम इति न सिध्येत्। "डे च" इत्यादि। डप्रत्यये च गमेर्विहायसो विहादेशः। "विहगः" इति। न पुनरत्र डप्रत्ययः? अस्मादेव वचनाद्भवति। अथ वा वक्ष्यत्युत्तरतः "डप्रकरणेऽन्येष्वपि दृश्यते" (वा।२५६) इति॥
बाल-मनोरमा
प्रियवशे वदः खच् ७६६, ३।२।३८

प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः। खशि प्रकृते खज्विधेरुत्तरसूत्रे प्रयोजनं वक्ष्यते। गमेः सुपि वाच्य इति। "ख" जिति शेषः। ननु संज्ञायामित्यनुवृत्तौ "गमश्चे"ति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदं वार्तिकमित्यत आह--- असंज्ञार्थमिदमिति। विहायस इति। विहायः शब्दः आकासे वर्तते। तस्मिन्नुपपदे गमेः खच्। "गमश्चे"ति वक्ष्यमाणसूत्रेण , पूर्ववार्तिकेन वा सिद्धः खच् "चे"त्यनूद्यते। प्रकृतेर्विहायश्शब्दस्य विहादेशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः। विहङ्ग इति। डित्त्वपक्षे तत्सामथ्र्यादभस्यापि टेर्लोपः। विहङ्गम इति। विहायसा गच्छतीति विग्रहः। भुजङ्गम इति। भुजैर्गच्छतीति विग्रहः। द्विषत्परयोः। "तप दाहे" चुरादिः, "तप सन्तापे" भ्वादिः। द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः। खच् स्यादिति। द्विषत्, पर अनयोः कर्मणोरुपपदयोस्तापेः खजित्यर्थः। द्विषत् तापि अ इति स्थिते आह--

तत्त्व-बोधिनी
प्रियवशे वदः खच् ६३७, ३।२।३८

प्रियवशे वदः खच्। खकारो मुमर्थः, चकारस्तु "खचि ह्यस्वः" इति विशेषणार्थ इति वृत्तिः। खे ह्यस्व इत्युच्यमाने एजेः खश जनमेजय इत्यत्रापि स्यादिति तदाशयः। "एकानुबन्धग्ररणे द्व्यनुबन्धस्य न ग्रहण"मिति खशि न भविष्यतीत्यादिना वृत्तिग्रन्थस्याऽयुक्तत्वमाहुः। खशि प्रकृते प्रत्ययान्तकरणमुत्तरार्थम्, द्विषन्तप इत्यत्र ह्यस्वणिलोपौ यथा स्यातां शप् च माभूदिति। नन्वेवमुत्तरत्रैव क्रियतामिति चेत्। सत्यम्। इह करणमन्यतोऽपि क्वचिद्भवतीति ज्ञापनार्थं तेन "गमेः सुपी"ति नाऽपूर्वं वार्तिकं, किंतु ज्ञापकसिद्धमेव।

* गमेः सुपि वाच्यः। असंज्ञार्थमिति। संज्ञायां तु वक्ष्यमाणेन "गमश्चे"ति सूत्रेणैव सिद्धमिति भावः।

* खच्च डिद्वा वाच्यः। विहङ्गम् इति। विहायसा = आकाशेन गच्छतीति विग्रहः। पूर्ववार्तिकेनैवक्यमकृत्वा "खच्च डिद्वे" ति पृथक्करणसामथ्र्यादन्यत्रापि क्वचिद्भवतीत्याशयेनोदाहरति-- भुजङ्गमः। भुजङ्ग इति। इह "गमेः सुपी"ति खच्।