पूर्वम्: ३।२।३
अनन्तरम्: ३।२।५
 
सूत्रम्
सुपि स्थः॥ ३।२।४
काशिका-वृत्तिः
सुपि स्थः ३।२।४

सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति। समस्थः। विषमस्थः। अत्र योगविभागः कर्तव्यः सुपि इति। सुपि आकारान्तेभ्यः कप्रत्ययो भवति। द्वाभ्याम् पिबति इति द्विपः। पादपः। कच्छपः। ततः स्थः इति। स्थश्च सुपि कप्रत्ययो भवति। किमर्थम् इदम्? कर्तरि पूर्वयोगः। अनेन भावे ऽपि यथा स्यात्। आखूनाम् उत्थानम् आखूत्थः। शलभोत्थः। इति उत्तरं कर्मणि इति च सुपि इति च द्वयम् अप्यनुअवर्तते। तत्र सकर्मकेषु धातुषु क्र्मणि इत्येतदुपतिष्ठते। अन्यत्र सुपि इति।
न्यासः
सुपि स्थः। , ३।२।४

सुपीति ग्रहणात् कर्मणीति न सम्बध्यते, तिष्ठतेरकर्मकत्वाच्च। "समस्थः" इत्यादौ सप्तम्यन्त उपपदे "अत्र" इत्यादि। सुपीत्येको योगः, तत्र चात इत्यनुवत्र्तते। "सुपीत्यादिना" अस्य योगस्यार्थमाचष्टे। "ततः स्थ इत" इति। द्वितीयो योग इति। "स्थश्च सुपि" इति विवरणम्। "किम्ित्यादि। पूर्वेण सिद्धमिति मन्यमानस्य प्रश्नः। "भावेऽपि यथा स्यात्" इति। आरम्भसामथ्र्यात् कत्र्तरि तावन्न भविष्यति। न चार्थान्तरं निर्द्दिश्यते, तत्र "अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" (पु।प।पा।९०) इति भाव एव स्यात्। स एव हि धातूनां स्वार्थः। "{आखूत्थः-काशिका} आखूत्थम्" इति। "उदः स्थास्तम्भोः पूर्वस्य" ८।४।६० इति पूर्वसवर्णः॥
तत्त्व-बोधिनी
सुपि स्थः ६१२, ३।२।४

सुपि स्थः। "सु"पिति प्रत्याहारो गृह्रते, न तु सप्तमीबहुवचम्। कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात्। आरम्भसाथ्र्यादिति। कर्तरि पूर्वेणैव सिद्धत्वादिह "कर्तरि कृ"दिति न संबध्यते, अनिर्दिष्टार्थश्चस्वार्थे, धातोः स्वार्थो भाव एव। नन्वेवं "घञर्थे कविधान" मित्यनेन गतार्थतेति चेत्। न। वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेः। किं च "षष्ठी"ति सूत्रेण पाक्षिकसमासे प्रसक्ते "उपपदमति"ङिति नित्यसमासार्थमिदम्। अतएव ल्युडन्तेनाऽस्वपदविग्रहमाह-- आखूनामुत्थानमिति। नन्वेवं "घञर्थे कविधाने स्थारुआआपाव्यधिहनियुध्यर्थ"मिति वार्तिके स्थाग्रहणं व्यर्थमिति चेत्। अत्राहुः-- "अकर्तरि कारके विधानार्थं तत्र स्थाग्रहण"मिति। आखूत्थ इति। स्था इत्यस्य के परे "आतो लोपः" इत्यालोपः, "उदः स्थास्तम्भो"रिति उदः परस्य सस्य थः, उदो दस्य चत्र्वम्। अत्र प्राचा आखूत्थं वर्ततैति नपुंसकं पठितं, तदुपेक्ष्यमिति मनोरमायामुक्तम्, भाष्यादौ सर्वत्र पुंलिङ्गस्यैवोदाह्मतत्वात्। "ल्युः कर्तरीमनिज् भावेको घोः किः प्रादितोऽन्यतः" इत्यमरकोशे बावे कस्य पुंस्त्वविधानात्, "भावे नणकचिद्भोऽन्ये" इति नपुंसकविधाने कस्य पर्युदासाच्चेति। "नणकचिद्भ्य" इत्यत्र चकार इद्यस्य स चित्, नश्च णश्च कश्च चिच्च नणकचितस्तेभ्योऽन्य इति विग्रहः।