वाक्शब्दे कर्मणि उपपदे यमेः धातोः खच् प्रययो भवति व्रते गम्यमाने। व्रत इति शस्त्रितो नियमः उच्यते। वाचंयमः आस्ते। व्रते इति किम्? वाग्यामः।
"शास्त्रितः" इति। शास्त्रे कृत इति विगृह्र शास्त्रशब्दात् प्रतिपदिकाद्धात्वर्थे णिच्, तदन्तात् क्ते विहते शास्त्रित इति। शास्त्रविहित इत्यर्थः। अथ वा शास्त्रिण इतः शास्त्रितः, शास्त्रविद इतः = जातः, प्रवृत्तः। अथ वा-- शास्त्रशब्दस्तारकादिषु द्रष्टव्यः। शास्त्रमस्य सञ्जातमिति शास्त्रितः। "वाचंयमः" इति। वाचं यच्छतीति विगृह्र खचि "वाचंयमपुरन्दरौ च"
६।३।६८ इति पूर्वपदस्य मुमभावो निपात्यते। ननु च प्रत्ययोऽपि तेनैव निपातनेन भविष्यति,
तत्किमनेन? नैतदस्ति; यच्छतीति पचाद्यचि विहिते ततश्च "वाचो यमः" इति षष्ठीसमासे कृते वाचंयम इति सिध्यति। सम्पद्यत एव, तत्र तु निपातनमनर्थकं स्यात्। एवञ्च सति नित्यमुपपदसमासो न स्यात्। अतः खच्प्रत्ययो विधेयः, निपातनमपि कत्र्तव्यम्॥