पूर्वम्: ३।२।४१
अनन्तरम्: ३।२।४३
 
सूत्रम्
सर्वकूलाभ्रकरीषेषु कषः॥ ३।२।४२
काशिका-वृत्तिः
सर्वकूलाभ्रकरीषेषु कषः ३।२।४२

सर्वकूल अभ्र करीर इत्येतेषु कर्मसु उपपदेषु कषेः धातोः खच् प्रत्ययो भवति। सर्वं कषति सर्वंकषः खलः। कूलङ्कषा नदी। अभ्रङ्कषो गिरिः। करीषङ्कषा वात्या।
न्यासः
सर्वकूलाभ्रकरीषेषु कषः। , ३।२।४२

"सर्वङ्कषः" इति। "कष खष शिष जष जष {शक इति मु।पाठः} शष वष मष रुष रिष हिंसार्थाः" (धा।पा।६८५-६९४)॥