पूर्वम्: ३।२।५१
अनन्तरम्: ३।२।५३
 
सूत्रम्
लक्षणे जायापत्योष्टक्॥ ३।२।५२
काशिका-वृत्तिः
लक्षणे जायापत्योष् टक् ३।२।५२

हन्तेः जायापत्योः कर्मणोः उअपपदयोः लक्षणवति कर्तरि टक् प्रत्ययो भवति। जायाघ्नो ब्राह्मणः पतिघ्नी वृषली। अथ वा लक्षणे द्योत्ये टक् प्रत्ययः।
न्यासः
लक्षणे जायापत्योष्टक्। , ३।२।५२

लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम्। तदस्यास्तीति तस्मिन् लक्षणवति। एतेन मत्वर्थीयाकारप्रत्ययान्तो लक्षणशब्दः सूत्र उपात्त इति दर्शयति, स च कर्त्तुः प्रत्ययस्य विशेषणमिति दर्शयन्नाह-- "लक्षमवति कत्र्तरि" इति। अथ लक्षणशब्दस्योपपदत्वं कस्मान्न भवति? केचिदाहुः- "हन्तेः सकर्मकत्वात् कर्मणीतीहोपतिष्ठते;तत्र यदीह लक्षणस्योपपदत्वं स्यात्, तत् कर्मणा विशिष्येत। न च लक्षणं हन्तेः कर्मोपपद्यते, स हि हिंसायां वत्र्तते, हिंसा च प्राणिविषया। जायापत्योः प्राणिधर्मत्वात् कर्मत्वमुपपद्यते"इति, एतच्चानुपपन्नम् ; मत्वर्थीयाकारप्रत्ययान्तस्य लक्षणशब्दस्य प्राणिन्यपि वृत्तेः। व्याख्यानादेव लक्षणस्यानुपपदत्वं विज्ञायते। अनभिधानाद्वा। जायापत्योः कत्र्रोरभिधानं दृष्टम्। "जायाघ्नः"इति। कित्त्वात् "गमहन" ६।४।९८ इत्यादिनोपधालोपः, पूर्ववत् कुत्वम्। "पतिघ्नी"इति। टित्त्वान्ङीप्॥
बाल-मनोरमा
लक्षणेजायापत्योष्टक् ७८०, ३।२।५२

लक्षणे। लक्षणवतीति। सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः। जायाघ्नो नति। जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः। "गमहने"त्युपधालोपः। पतिघ्नी स्त्रीति। पतिहननसूचनलक्षणवतीत्यर्थः। टित्त्वान्ङीप्।

तत्त्व-बोधिनी
लक्षणेजायापत्योष्टक् ६४७, ३।२।५२

लक्षणवतीति। सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः। जायाघ्न इति। जायामरणसूचकं पाणिरेखाविशेषादिकं यस्यास्ति स तां हन्तीति गौणो व्यवहारः। एवं पतिघ्नीत्यत्रापि बोध्यम्।