पूर्वम्: ३।२।५३
अनन्तरम्: ३।२।५५
 
सूत्रम्
शक्तौ हस्तिकपाटयोः॥ ३।२।५४
काशिका-वृत्तिः
शक्तौ हस्ति कपाटयोः ३।२।५४

शक्तौ गम्यमानायां हस्ति कपाटयोः कर्मणोरुपपदयोः हन्तेः टक् प्रत्ययो भवति। मनुष्यकर्तृकार्थ आरम्भः। हस्तिनं हन्तुं शक्तः हस्तिघ्नः मनुष्यः। कं पाटयति प्रविशत इति कपाटघ्नश्चौरः। शक्तौ इति किम्? विषेण हस्तिनं हन्ति हस्तिघातः।
न्यासः
शक्तौ हस्तिकपाटयोः , ३।२।५४

"शक्तौ गम्यमानायाम्" इति। अनेनोपपदत्वं शक्तेर्निराकरोति। "हस्तिकपाटयोः कर्मणीरुपपदयोः"इत्यनेनापि हस्तिकपाटयोः प्रत्ययार्थविशेषणम्। अथैवं कस्मान्न विज्ञायते-- शक्तावुपपदे हस्तिकपाटयोः कत्र्रोरिति? आरम्भसामथ्र्यादेव हि विज्ञायमाने हस्तिकपाटयोर्मनुष्यकर्त्तृके धात्वर्थे हन्तिर्वत्र्तते। तथा च पूर्वेणैव सिद्धेऽस्यारम्भवैयथ्र्यं स्यात्। उपपदत्वे तु तयोः शक्तौ गम्यमानायां मनुष्ये कत्र्तरि विज्ञायत इति न भवत्येष दोषः। "विशेष हस्तिनं हन्ति"इति। विषेणेत्यशक्तिकत्वं दर्शयति। यो हि स्वयं हन्तुं न समर्थः स विषादिनोपायान्तरेण हन्ति॥
बाल-मनोरमा
शक्तौ हस्तिकवाटयोः ७८२, ३।२।५४

शक्तौ हस्तिकवाटयोः। हस्तिघ्न इति। हस्तिनं हन्तुं शक्त इत्यर्थः। एवं कवाटघ्नः।

तत्त्व-बोधिनी
शक्तौ हस्तिकपाटयोः ६४९, ३।२।५४

शक्तौ हस्ति। शक्तौ किम्?। विषेण हस्तिनं हन्तीति हस्तिघातः। यद्यपीह शक्तिरस्ति, अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्तिग्रहणसामथ्र्यात्प्रकर्षो विज्ञायते, तेन स्वबलेनैव हन्तुं या शक्तिः सा गृह्रते। कपाटघ्न इति। कं = शिरः पाटयति प्रविशत इति कपाटम्। पाठान्तरे तु अटतेः पचाद्यच्। "कवं चोष्णे" इत्यत्र योगविभागात्कोः कवादेश इति हरदत्तः।