पूर्वम्: ३।२।५९
अनन्तरम्: ३।२।६१
 
सूत्रम्
त्यदादिषु दृशोऽनालोचने कञ् च॥ ३।२।६०
काशिका-वृत्तिः
त्यदादिषु दृशो ऽनालोचने कञ् च ३।२।६०

त्यदादिषु उपपदेषु दृशेर् धातोरनालोचने ऽर्थे वर्तमानात् कञ् प्रत्ययो भवति, चकारात् क्विन् च। त्यादृशः, त्यादृक्। तादृशः, तादृक्। यादृशः, यादृक्। कञो ञकारो विशेषणार्थः, ठक् ठञ् कञिति। अनालोचने इति किम्? तं पश्यति तद्दर्शः। तादृगादयो हि रूढिशब्दप्रकाराः, न एव अत्र दर्शनक्रिया विद्यते। समानान्ययोश्चेति वक्तव्यम्। सदृशः, सदृक्। अन्यादृशः, अन्यादृक्। दृशेः क्षश्च वक्तव्यः। तादृक्षः। यादृक्षः। अन्यादृक्षः। कीदृक्षः।
लघु-सिद्धान्त-कौमुदी
त्यदादिषु दृशोऽनालोचने कञ्च ३४९, ३।२।६०

त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात्। चात् क्विन्॥ ,
न्यासः
त्यदादिषु दृशोऽनालोचने कञ्च। , ३।२।६०

अनालोचनमिह चक्षुज्र्ञानमात्रमभिप्रेतम्। यदि तत्र दृशिर्न वत्र्तत एवं प्रत्ययो भवति, नान्यथा। "त्यादृक्, त्यादृशः" इति। "दृक्दृशवतुषु" ६।३।८८ इत्यनुवत्र्तमाने "आ सर्वनाम्नः" ६।३।९० इत्यात्वम्। "कञो ञकारः "टिड्ढामञ" इति विशेषणार्थः इति। यदि कञो ञकारो न कत्र्तव्यसत्दोदात्तार्थो नकारः कत्र्तव्यः। एवञ्च कञ्कन्नित्येवं ४।१।१५ कत्र्तव्यम्। ततश्चैवमुच्यमाने "यावादिभ्यः कन्" ५।४।२९ यादिकेत्यत्रापि ङीप् प्रसज्यते, अतस्तद्विशेषणार्थो ञकारः कत्र्तव्यः इति। ननु च दृशेर्दर्शनक्रियत्वात् तादृक् तादृश इत्यादिषु दर्शनक्रियाऽस्त्येव, तथा ह्रेषां व्युत्पत्तौ तं पश्यत्येवंप्रकारं वाक्यमुपदिश्याचार्याः प्रत्ययं कुर्वन्ति। वाक्यसमानार्था वृत्तिर्भवति, सा च दर्शनक्रिया ज्ञानार्थिका। तत्कथमत्र दृशिरनालोचने वत्र्तत इत्याह-- तादृगादयो हि रूढिशब्दप्रकाराः"इत्यादि। रूढिशब्देषु नावयवार्थेन भवितव्यम्,किं तर्हि? समुदायार्थेन। अत एवात्रावयवार्थो नोपदीयते। व्युत्पत्त्यर्थस्तु विद्यमानोऽप्यवयवार्थ नोपादत्ते, यथा-- व्याजिघ्रतीति व्याघ्र इत्यादौ। तस्मादिह यद्यपि व्युत्पत्त्यर्थं वाक्यस्य दर्शनक्रियोपादीयते, तथाप्यसौ वृत्तौ नास्त्येव। तथा हि-- तादृक् तादृश इत्यादिभ्यः शब्देभ्यः सदृशवस्तुविषये प्रत्यय उपजायते, न तु दर्शनक्रियाविषय इति युक्तैव दृशेरनालोचने वृत्तिः। "समानान्ययोश्चेति वक्तव्यम्" इति। समानान्ययोश्च शब्दयोरुपपदयोर्दृशेः क्विन्कञौ प्रत्ययौ भवव इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--- पू()रवसूत्रादिह चकारोऽनुवत्र्तते, स चानुवतसमुच्चयार्थः। तेन समानान्ययोरुपपदयोर्दृशेः प्रत्ययौ भविष्यतः। "सदृशः" इति। "समानस्य" ६।३।८३ इत्यनुवत्र्तमाने " दृग्दृशवतुषु" ६।३।८८ इति सभावः॥
बाल-मनोरमा
त्यदादिषु दृशोऽनालोचने कञ्च , ३।२।६०

अथ शान्ताः। तादृक्शब्दं व्युत्पादयितुमाह--त्यदादिषु। चकारात् "स्पृशोऽनुदके क्विन्" इत्यतः "क्विन्" इत्यनुकृष्यते। आलोचनमिह ज्ञानसामान्यं विवक्षितं, तदाह--त्यदादिष्वित्यादि। अनालोचने किम्?। तं पश्यति तद्दर्शः। कर्मण्यण्। कञि तु कित्त्वाद्गुणो न स्यात्। तद् शब्दे उपपदे क्विनि उपपदसमासे सुब्लुकि तद्-दृश् इति स्थिते।

तत्त्व-बोधिनी
त्यदादिषु दृशोऽनालोचने कञ्च ३८१, ३।२।६०

त्यदादिषु। कञन्तस्य तूदाहरणं "तादृशो" "यादृश"इत्यादि, तच्चाऽत्र नोक्तं, हलन्तेष्वनुपयोगात्। अनालोचने किम्()। तं पश्यतीति तद्दर्शः। कर्मण्यण्। तादृशादयस्तु रूढशब्दत्वादसताप्यवयवार्थेन व्युत्पाद्यान्ते। अतएवाऽज्ञानार्थाद्दृशेरिति सङ्गच्ते। भाष्ये तु कर्मकर्तरि व्युत्पत्तिर्दर्शिता--"तभिवेमं पश्यन्ति जनाः, स इवायं पश्यति"। ज्ञानविषयो भवतीत्यर्थात्। अज्ञानार्थादिति तु सङ्गच्छते, तत्र दृशेज्र्ञानविषयत्वापत्तिमात्रवृत्तित्वेऽपि विषयीकरणाऽवृत्तित्वात्।