पूर्वम्: ३।२।६१
अनन्तरम्: ३।२।६३
सूत्रम्
भजो ण्विः॥
३।२।६२
काशिका-वृत्तिः
भजो ण्विः
३।२।६२
उपसर्गे सुपि इति वर्तते। भजेर् धातोः सुबन्त उपपदे उपसर्गे ऽपि प्रभाक्।
न्यासः
भजो ण्विः।
, ३।२।६२
"अर्धभाक्" इति। "वेरपृक्तस्य"
६।१।६५
इति वकारलोपः। प्रत्ययलोपलक्षणेन "अत उपधायाः"
७।२।११६
इति वृद्धिः, "चोः कुः"
८।२।३०
इति कुत्वम्। णकारो वृद्ध्यर्थः। इकारः "वेरपृक्तस्य"
६।१।६५
इति सामान्यग्रहणार्थः॥