पूर्वम्: ३।२।८३
अनन्तरम्: ३।२।८५
 
प्रथमावृत्तिः

सूत्रम्॥ भूते॥ ३।२।८४

पदच्छेदः॥ भूते ७।१ १२३

अर्थः॥

{वर्तमाने लट् (३।२।१२३)} इत्यतः पूर्वं पूर्वं ये प्रत्ययाः विधीयन्ते, ते भूते काले भवन्ति, इति अधिकारः वेदितव्यः।

उदाहरणम्॥

अग्रे उदाहरिष्यामः।
काशिका-वृत्तिः
भूते ३।२।८४

भूते इत्यधिकारो वर्तमने लट् ३।२।१२३ इति यवत्। यदित ऊर्ध्वम् अनुक्रमिष्यामः भूते इत्येवं तद् वेदितव्यम्। धात्वधिकाराच् च धात्वर्थे भूते इति विज्ञायते। वक्ष्यति करणे यजः ३।२।८५, अग्निष्टोमेन इष्टवानग्निष्टोमयाजी। भूते इति किम्? अग्निष्टोमेन यजते।
न्यासः
भूते। , ३।२।८४

भूतशब्दोऽयमतिक्रान्तवचनः, अस्ति च स्वरूपवचनः, तत्र न ज्ञायते-- कस्मिन् भूते प्रत्यय इति? अतस्तत्पज्ञानायाह-- "धात्वधिकाराच्च"इत्यादि। चशब्दो हेतौ। यस्माद् धातोरिति वत्र्तते तस्माद्धात्वर्थभूत इति विज्ञायते। ननु च धात्वधिकाराद्धातोरेव भूत इत्येतद्विशेषणं युक्तम्? न; असम्भवात्। धातोह्र्रस्मिन्नभिधेये गुणीभूतस्य भूत इत्येतद्विशेषणमनुपपन्नम्। अतस्तत्रासम्भवात् तदर्थस्यैव तद्विशेषणं विज्ञायते॥
बाल-मनोरमा
भूते ८०५, ३।२।८४

भूते। अधिकारोऽयमिति। धातोरित्यधिकृतम्। ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्राऽनुवर्तते इति फलति। वर्तमाने इति। "वर्तमाने ल"डित्यतः प्रागित्यर्थः। अत्र व्याख्यानमेव शरणम्।

तत्त्व-बोधिनी
भूते ६६५, ३।२।८४

भूते। धातोरित्यधिकाराद्धात्वर्थस्य विशेषणमिद्। भूतेऽर्थे विद्यमानाद्धातोरित्यर्थः।