पूर्वम्: ३।२।८४
अनन्तरम्: ३।२।८६
 
सूत्रम्
करणे यजः॥ ३।२।८५
काशिका-वृत्तिः
करणे यजः ३।२।८५

णिनिः अनुवर्तते, न खश्। यजतेर् धातोः करणे उपपदे णिनिप्रत्ययो भवति भूते। अग्निष्टोमयाजी। अग्निष्तोमः फलभावनायां करणं भवति।
लघु-सिद्धान्त-कौमुदी
करणे यजः ८१०, ३।२।८५

करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी॥
न्यासः
करणे यजः। , ३।२।८५

"णिनिरनुवत्र्तते, न खश्िति। णिनेरेव स्वरितत्वात्। क्व पुनर्यागः करणमित्याह-- "अग्निष्टोमः फलभावनायाम्" इत्यादि। फलं स्वर्गः, तस्य या भावनोत्पादना = यजमानसम्बन्धी व्यापारः, तत्राग्निष्टोमयागः करणं भवति। ननु चाग्निष्टोमव्यतिरेकेण यजमानसय् व्यापारो भावनाख्यो नास्त्येव, यत्र यागः करणमिष्यते, तथाह्रग्निष्टोमाख्येनैव ह्रसौ यागेन स्वर्गाख्यं फलमुत्पादयति? नैतदेवम्; विशेषव्यापारे हि सामान्यव्यापारोऽस्ति, विक्षेषस्य सामान्यव्यभिचारात्। सामान्यव्यापार एव ह्रादौ फलार्थिनो बुद्धौ सन्निविशते। तथा हि-- प्रतिपत्ता फळं समीहमानः स्वयमेव फलकामः सन् "स्वर्गो मनसि कत्र्तव्यः"इति सामान्यव्यापारं बुद्धावारोपयति, ततः " अग्निष्टोमेन स्वर्गकामो यजेत"इति शास्त्रस्याग्निष्टोमेन करणेन स्वर्ग भावयेदितीममर्थ प्रतिपाद्य, स्वर्गभावनां प्रति करणत्वेनाग्निष्टोममाश्रयति। तस्मात् सामान्यव्यापारे स्वर्गस्योत्पादो विशेषव्यापारोऽग्निष्टोमाख्यो यागः स्वर्गाभावनायां करणं भवति। ननु चानुष्ठीयमानः कर्मत्वमनुभवति, तथापि तस्य शक्तिभेदात् करणत्वं न विरुध्यते, यथा -- "निपीयमानेन मधुना मत्तः" इत्यत्र कर्मभावमनुभवतोऽपि मधुनः करणभावो भवति। तदेवमग्निष्टोमयाजीत्यस्यायमर्थः-- अग्निष्टोमेन करणेन स्वर्ग भावितवानिति। स्वर्गशब्दस्तु वृत्तादन्तर्हितत्वान्न प्रयुज्यते॥
बाल-मनोरमा
करणे यजः ८०६, ३।२।८५

करणे यजः। सोमेनेति। सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः। सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः। एतच्च द्वितीयस्य द्वितीये "द्रव्यसंयोगाच्चोदना पशुसोमयो"रित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः। अग्निष्टोमयाजीति। अग्निष्टोमाख्ययागेन अपूर्वं भावितवानित्यर्थः।

तत्त्व-बोधिनी
करणे यजः ६६६, ३।२।८५

करणे। स्वरितत्वाण्णिनिरेवानुवर्तते, न तु खशित्याह-- णिनिः स्यादिति। सोमेन लताविशेषेण यागं कृतवानित्यर्थः। अग्निष्टोमेति। अग्निष्टोमस्तोत्रेण समाप्यमानो यो यागः स लक्षणयाऽग्निष्टोमस्तेनाऽपूर्वं भावितवानित्यर्थः। उक्तं च काशिकायाम्-- अग्निष्टोमः फलभावनायां करण"मिति।