पूर्वम्: ३।३।१०७
अनन्तरम्: ३।३।१०९
 
सूत्रम्
रोगाख्यायां ण्वुल् बहुलम्॥ ३।३।१०८
काशिका-वृत्तिः
रोगाऽख्यायं ण्वुल् बहुलम् ३।३।१०८

रोगाख्यायां गम्यमानायां धातोः ण्वुल् प्रत्ययो बहुलं भवति। क्तिन्नादीनाम् अपवादः। आख्याग्रहणं रोगस्य चेत् प्रत्ययान्तेन संज्ञा भवति। बहुलग्रहणं व्यभिचरार्थम्। प्रच्छर्दिका। प्रवाहिका। विचर्चिका। न च भवति। शिरोर्तिः। धात्वर्थनिर्देशे ण्वुल् वक्तव्यः। आशिका। शायिका वर्तते। इक्श्तिपौ धातुनिर्देशे। भिदिः। छिदिः। पचतिः। पठतिः। वर्णात् कारः। निर्देश इति प्रकृतम्। अकारः। इकारः। रादिफः। रेफः। मत्वर्थाच् छः। अकारलोपः। मत्वर्थीयः। इणजादिभ्यः। आजिः। आतिः। आदिः। इक् कृष्यादिभ्यः। कृषिः। किरिः।
न्यासः
रोगाख्यायां ण्वुल्बहुलम्। , ३।३।१०८

"क्तिन्नादीनामपवादः" इति। आदिशब्देनाङादीनाम्।"आख्याग्रहणम्" इत्यादि। यदि प्रत्ययान्तं रोगस्य नाम भवत्येवं प्रत्ययो भवति। नान्यथेत्यस्यास्य संवाद्नायाख्याग्रहणम्। ते पदान्तरवाच्ये रोगे न भवति-- बुभुक्षा भस्मकेनेति। "बहुलग्रहणम्" इत्यादि। रोगाख्याया रोगाख्याया अन्यत्रापि ण्वुलो विधानं व्यभिचारः; तदर्थं बहुलग्रहणम्। तेन धात्वर्थनिर्देशेऽपि सिद्धो भवति। अपरोऽर्थः रोगाख्याया विषयाण्ण्वुलो विधेर्योऽन्यत्राप्यस्य लक्षणस्य विषये वृत्तिव्र्यभिचारः सः, तदर्थं बहुलग्रहणम्। तेन "इक्श्तिपौ धातुनिर्दशे"(वा।३१९) इत्येवमादि सर्वं संगृहीतं भवति। "प्रच्छर्दिका" इति। "छर्द वमने"(धा।१५८९) चुरादिः। "प्रवाहिका"इति। "वह प्रापणे"(धा।पा।१००४)। "प्रचर्चिका" इति। "चर्च अध्ययने" (धा।पा।१७१२) चुरादिः। अत्र वहेः क्तिनि प्राप्ते ण्वुल्ितरयोस्तु युचि। "शिरोऽस्तिः" इति। "अर्द हिंसायाम्" (धा।पा।१८२८), "अर्द {गतौ याचने च" -धा।पा।} गतौ" (धा।पा।५५) इति वा। "खरि च" ८।४।५४ इति चत्र्वम्। शिरसा सह षष्ठीसमासः, "ससजुषो रुः"८।२।६६, "अतो रोरप्लुतादप्लुते" ६।१।१०९ इत्युत्त्वम्, "आद्गुणः" ६।१।८४, "एङः पदान्तादति" ६।१।१०५ इत्येते विधयः कत्र्तव्याः। "इक्श्तिपौ"इति। ककारः कित्कार्यार्थः, तेन पचतिरिति सार्वधातुकनिबन्धनः शब्भवति। ननु च कर्त्तृवाचिनि सार्वधातुके शब्विधीयते; न चात्र कत्र्ता प्रत्ययार्थः;तत्कुतः शपः सम्भवः? सार्वधातुकसंज्ञार्थशित्करणसामाथ्र्यादकर्त्तृवाचिन्यपि सार्वधातुके शब्भविष्यति;अन्यथा हि शित्करणमनर्थकं स्यात्। यद्येवम्, यगपि स्यात्? अनभिधानान्न भविष्यति। "वर्णात्कारः" इति। वर्णादित्युच्यते, तत्रैवकार इति न सिध्यति? बहुलग्रहणसन्निधौ वचनात् क्वचिदवर्णादपि भविष्यतीत्यदोषः। अथ वा करणं कारः, एवस्य कारैति षष्ठीसमासोऽयम्। "मत्वर्थाच्छः" इति। अत्राकारलोपश्च वक्तव्यः। अभसंज्ञत्वद्धि न प्राप्नोति। बहुलग्रहणाद्वाकारलोपो भविष्यति। "इणजादिभ्यः" (इति)। "इक् कृष्यादिभ्यः" इति। अधातुनिर्देशार्थमेतत्। आज्यादयः शब्दाः संज्ञाशब्दा द्रष्टव्याः॥
तत्त्व-बोधिनी
रोगाख्यायां ण्वुल्बहुलम् १५६७, ३।३।१०८

रोगाख्या। धातोर्बहुलं ण्वुल् स्यात्प्रत्ययान्तं चेद्रोगस्यसंज्ञा। क्तिन्नादीनामपवादः। प्रच्छर्दिकेति। छर्द वमने। प्रवाहिकेति। प्रवाहयति = मुहुर्मुहुः प्रवर्तयतीति प्रवाहिका = ग्रहणी। विचर्चिकेति। चर्च अध्ययने। प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः। "पाम पामा विचर्चिका" इत्यमरः। शिरोर्तिरिति। शिरःपीडा। अर्द हिंसायात्। "तितुत्रे"ति नेट्। धात्वर्थनिर्देश इति। क्रियानिर्देश इत्यर्थः। आसिका। शायिकेति। आसनं, शयनमित्यर्थः। इक्()श्तिपौ। धातोर्निर्देशः-अनुकरणम्। बहुलमित्यनुवृत्तेः क्वचिन्न। "गुप्तिज्किद्भ्यः सन्" "भुवो वुग्लुङ्लिटोः"। पचतिरिति। "उपसर्गात्सुनोति सुवतिस्यति" "ध्यायतेः संप्रसारमं चे"त्यादिनिर्देशादकर्तृवाचिन्यपि सार्वधातुके परे शबादयः। एवं भावकर्मवाचिन्यपि सार्वधातुके क्वचिद्यक्, "विभषा लीयतेः" इति यथा। तत्र हि "लीलीङोर्यका निर्देशो, न तु श्यने"त्युक्तम्। यत्तु प्राचा "श्तिपः शित्करणसामथ्र्याच्छबादय" इत्युक्तम्। तन्न। पिबतिर्ग्लायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या , आत्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात्। वर्णादिति। वर्णानुकरणादित्यर्थः। न तु वर्णादुच्चार्यमाणादिति। तथा हि सत्यकार इत्यादावेव स्यान् तु ककार इत्यादौ। अत्र हि सङ्घातस्योच्चारणात्। अनुकार्यं त्विह वर्णमात्रम्, अकारत्सङ्घातादपि भवति, "उच्चैस्तरां वा वषट्()कारः" इति सूत्रनिर्देशात्। "सर्वे चकाराः प्रत्याख्यायन्ते" भाष्यप्रयोगाद्बहुलवचनाच्चेति। इह कारप्रत्ययस्य धातोरविहितत्वेऽपि धात्वदिकारस्थत्वात्कृत्संज्ञा। तेन कृदन्तत्वात्प्राप्तिपदिकत्वम्। प्रयोजनाऽभावन्न ककारस्येत्संज्ञा। आद्र्धधातुकत्वाऽभावादिडागमो न। "अस्य च्वौ" इत्यादौ तु कारप्रत्ययाऽभावो बाहुलकादेव। रादिफः। वाऽसरूपविधिना कारोऽपि। तेन "रकारादीनि नामानि शृण्वतो मम पार्वति" इत्यादि प्रयोगः साधुरेव। अकारलोप इति। अतद्धतपरत्वादभत्वाच्च "यस्ये"ति लोपस्याऽप्राप्तिरिति भावः। कृदन्तत्वात्प्राप्तपदिकत्वमिह पूर्ववद्बोध्यम्। "तसौ मत्वर्थे" इत्यत्र बाहुलकाच्छो न। "शैषकान्मतुबर्थीया"दित्यत्र तु बाहुलकादेव मतुबर्थशब्दाच्छः। अन्ये तु नैतत्कृदन्तं, मत्वर्थे भव इति विगृह्र गहादित्वाच्छप्रत्यये तद्धितान्तमेवेत्याहुः। इणजा। धात्वर्थनिर्देशे प्राप्तस्य ण्वुलऽपवादोऽयम्।एवमग्नेऽपि। आजिरिति। बाहुलकादजेर्वीभावो न।