पूर्वम्: ३।३।११
अनन्तरम्: ३।३।१३
 
सूत्रम्
अण् कर्मणि च॥ ३।३।१२
काशिका-वृत्तिः
अण् कर्मणि च ३।३।१२

भविस्यति इत्येव। चकारः सन्नियोगार्थः। धातोः अण् प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम्। कर्मण्यण् ३।२।१ इति सामान्येन विहितो वा ऽसरूपविधेरभावाद् ण्वुला बाधितः पुनरण् विधीयते, सो ऽपवादत्वाद् ण्वुलं बाधते, परत्वात् कादीन्। तेन अपवादविसये ऽपि भवत्येव। काण्डलावो व्रजति। अश्वदायो व्रजति। गोदायो व्रजति। कम्बलदायो व्रजति।
न्यासः
अण् कर्मणि च। , ३।३।१२

"कर्मण्यण्" इत्यादि। "तुमुन्ण्वुलौ" ३।३।१० इत्यादिसूत्रे ज्ञापितमेतत्-- वासरूपविधिरिह नास्तीति। तेन यद्यपि विशेषणेणाण् विहितः, तथापि वासरूपविधेरभावात् क्रियार्थोपपद न ण्वुला बाधितः,तस्मात् पुनर्विधीयते। "सोपऽपवादत्वाण्णवुलं बाधते" इति। नाप्राप्ते ण्वुलीतरस्यारब्धत्वात्, विशेषविहितत्वाच्च। "कादीन्" इति। बाधत इति सम्बन्धः। आदिशब्देन टगादीनां ग्रहणम्। "तेनापवादविषयेऽपि भवति" इति। अपवादाः सामान्यविहितस्याणः कादयः, तद्विषयेऽपि भवति। "अण् कर्मणि च" ३।२।१२ इत्यस्याऽनाकारान्तक्रियोपपदोऽवकाश--- काण्टलावो व्रजतीति, "आतोऽनुपसर्गे कः" ३।२।३ इत्यस्याकारान्तः क्रियोपपदोऽवकाशः --गोद इति; इह ह्रुभयं प्राप्नोति-- गोदायो व्रजतीति, परत्वादण् भवति। तथा "गपोष्टक्"३।२।८ इत्यस्यावकाशः--सुरापः,शीधुपः,अणः स एव;इहोभयं प्राप्नोति--सुरापायो व्रजति, शीधुपायो व्रजतीति॥
तत्त्व-बोधिनी
अण् कर्मणि च १५१३, ३।३।१२

ण्वुलोऽपवाद इति। "अव्ययकृतो भावे" इति भावे विहितत्वात्तुमुनः प्राप्तिरेव नास्तीति भावः।