पूर्वम्: ३।३।१२३
अनन्तरम्: ३।३।१२५
 
सूत्रम्
जालमानायः॥ ३।३।१२४
काशिका-वृत्तिः
जालम् आनायः ३।३।१२४

आनायः इति निपात्यते जालं चेत् तद् भवति। आङ्पूर्वात् नयतेः करने घञ् निपात्यते। आनायो मत्स्यानाम्। आनायो मृगाणाम्।
न्यासः
जालमानायः। , ३।३।१२४

तत्त्व-बोधिनी
जालमानायः १५७७, ३।३।१२४

जालमा। जल धातने [धान्ये()] ज्वलितिकसन्तेभ्यो णः" इति णप्रत्यये जालमाशब्दः सिद्धः। तेन जालशब्दोऽत्र निपात्यतैति न भ्रमितव्यम्।