पूर्वम्: ३।३।१३०
अनन्तरम्: ३।३।१३२
 
सूत्रम्
वर्तमानसामीप्ये वर्तमानवद्वा॥ ३।३।१३१
काशिका-वृत्तिः
वर्तमानसामीप्ये वर्तमानवद् वा ३।३।१३१

समीपम् एव सामीप्यम्। ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्यर्थम्। वर्तमानसमीपे भूते भविष्यति च वर्तमानाद् धातोः वर्तमानवत् प्रत्यया वा भवन्ति। वर्तमने लट् ३।२।१२३ इत्यारभ्य यावदुणादयो बहुलम् ३।३।१ इति वर्तामाने प्रत्यया उक्ताः, ते भूतभविष्यतोर् विधीयन्ते। कदा देवदत्त आगतो ऽसि? अयम् आगच्छामि। आगच्छन्तम् एव मां विद्धि। अयम् आगमम्। एषो ऽस्मि आगतः। कदा देवदत्त गमिष्यसि? एष गच्छामि। गच्छन्तम् एव मा विद्धि। एष गमिष्यामि। गन्तास्मि। वत्करणं सर्वसादृ̄श्यार्थम्। येन विशेषणेन वर्तमाने प्रत्ययाः विहिताः प्रकृत्योपपदोपाधिना तथा एव अत्र भवन्ति। पवमानः। यजमानः। अलङ्करिष्णुः। सामीप्यग्रहणं किम्? विप्रकर्षविवक्षायां मा भूत्, परुदगच्छत् पाटलिपुत्रम्। वर्षेण गमिष्यति। यो मन्यते गच्छामि इति पदं वर्तमाने काले एव वर्तते, कालान्तरगतिस् तु वाक्याद् भवति, न च वाक्यगम्यः कालः पदसंस्कारवेलायाम् उपयुज्यते इति तादृशं वाक्यार्थप्रतिपत्तारं प्रति प्रकरणम् इदं नारभ्यते। तथा च श्वः करिष्यति, वर्षेण गमिष्यति इति सर्वम् उपपद्यते।
लघु-सिद्धान्त-कौमुदी
वर्तमानसमीप्ये वर्तमानवद्वा ७६७, ३।३।१३१

वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः। कदागतोऽसि। अयमागच्छामि, अयमागमं वा। कदा गमिष्यसि। एष गच्छामि, गमिष्यामि वा॥
न्यासः
वत्र्तमानसामीप्ये वत्र्तमानवद्वा। , ३।३।१३१

यदि समीपस्य भावोऽभिधीयेत तद्धि स्यात्, एवं सति वत्र्तमानस्य सामीप्येन च समासो न स्यात्; सम्बन्धाभावात्। न हि सामीप्यस्य वत्र्तमानेन सम्बन्धः, अपि तु तत्समीपेन; तस्य तद्गुणत्वात्। तस्मात् स्वार्थ एवायमिह भविष्यतीति मत्वाहऽ‌ऽह-- समीपमेव सामीप्यम्" इति। किमर्थं पुनः स्वार्थिकं ष्यञं विधायैवं निर्देशः क्रियते, न वत्र्तमानसमीप एवोच्येत यतो लाघवं भवति? इत्यत आह-- "ष्यञः स्वार्थिकत्वं ज्ञाप्यते" इति।स्वार्थे ष्यञपि स्यादनेनेति। स्वार्थे ष्यञ् भवतीत्यमुमर्थं ज्ञापयितुं स्वार्थिकः ष्यञ् कृत इति। "चातुर्वण्र्यादिसिद्ध्यर्थम्" इति। अनेनापि ज्ञापनस्य प्रयोजनमुच्यते। आदिशब्देन चातुराश्रम्यादीनां ग्रहणम्। "अयमागच्छामि" इति। अयमागममित्यस्यार्थ एतद्वत्र्तते। "आगमम्" इति। लुङ, उत्तमैकवचनम्, "तस्थस्थमिपाम्" ३।४।१०१ इत्यादिना मिपोऽम्भावः, पुषादिसूत्रेण ३।१।५५ च्लेरङ। "एष गच्छामि" इति। एष गमिष्यामीत्यस्यार्थ इदं वत्र्तते। "गमेरिट् परस्मैपदेषु" ७।२।५८ इतीट्। "गन्तास्मि"इति। लुट्, तासिः, मिप्। अथ वत्करणं किमर्थम्, यत्वता "वत्र्तमानसामीप्ये वत्र्तमाने" इत्युच्यमाने वत्र्तमानकालविहिताः प्रत्यया वत्र्तमानसामीप्ये भवन्तीत्येषोऽर्थो लभ्यत एवत्यत आह-- "वत्करणम्" इत्यादि। असति वत्करणे वत्र्तमानकालेन रूपमात्रमेषां प्रत्ययानामुपलक्ष्यते, न तु प्रकृत्यादय उपादीयेरन्, ततश्च धातुमात्रात् स्युः। वत्करणे तु सति सर्वसादृश्यं गम्यते; तत्रैव वतेर्विधानात्, तेन सङ्करो न भवति। तमेवन सङ्कराभावं दर्शयितुमाह-- "येन "इत्यादि। एवं हि सर्वसादृश्यं भवति यदि येन विशेषणेन वत्र्तमाने विहितास्तेनैव वत्र्तमानसामीप्ये भवन्ति, नान्यथा। "प्रकृत्योपपदोपाधिना" इति। आदिश्ब्देनोपाधेरबिधेयस्य च ग्रहणम्। "पवमानः, यजमानः"इति। "पूङ्यजोः शानन्" ३।२।१२८ विहितः,स वत्र्तमानसामीप्येऽपि ताभ्यामेव भवति, न धात्वन्तरात्। "अलङ्गरिष्णुः" इति। ताच्छील्यादिविशिष्टे कत्र्तर्यलम्पूर्वात् कृञ इष्णुद्विहितः, वत्र्तमानसामीप्येऽपि तत्पूर्वादेव भवति। तस्मिन्नेव चार्थे "परुदगच्छत्" इत्यत्र विप्रकर्षविवक्षायां लङेव भवति। "वर्षेण गमिष्यति" इति। अत्रापि लृडेव भवति। "यो मन्यते" इत्यादिनापि प्रतिपत्तृविशेषं प्रति सूत्रं प्रत्याचष्टे। "कालान्तरगतिस्तु" इत्यादि। कालान्तरं वत्र्तमानसमीपो भूतो भविष्यंश्च कालः, तस्य या गतिः = प्रतीतिः। आगच्छामीत्यस्य पदस्य वत्र्तमानकालविशेषेऽप्ययं गच्छामीत्यतो वाक्यात् कदा देवदत्त गमिष्यसीत्येद्वाक्यसमनन्तरं प्रयुज्यमानाद्भवति। वाक्यगम्योऽपि कालो यदि पदसंस्कारवेलायामुपयुज्यते युज्येत सूत्रारम्भः, न चासौ तत्रोपयुज्यते; यस्माच्छास्त्रेण पदस्य संस्कारः क्रियते, न वाक्यस्य। पदे संस्क्रियमाणे तद्गम्य एव काल उपयुज्यते, तेन वाक्यगम्य इत्यभिप्रायः। इतिकरणः प्रकृतप्रत्यवमर्शक इति। एवं यो मन्यते = अवगच्छति तं प्रतीदं नारब्धव्यमेव। यदर्थमारभ्यते तेषां प्रत्ययानां "वत्र्तमाने लट्" ३।२।१२३ इत्यादिनैव शास्त्रेणासिद्धत्वात्। प्रकरणग्रहणेन केवलमिदं सूत्रं नारब्धव्यम्, अपि तु "अशंसायां भूतवच्च" ३।३।१३२ इत्येवमादीन्यपि नारब्धव्यनीति दर्शयति। "तादृशम्ित्यादि। एवञ्च यस्तु तादृशः प्रतिपत्ता न भवति मन्दबुद्धिस्तं प्रत्यारब्धव्यमेवेत्युक्तं भवति। न ह्रसावेवं न्यायेन प्रतिपत्तुं समर्थः। "तथा च" इत्यादि। यस्मात् तत्रैवं वाक्यगम्यः कालः पदसंस्कारवेलायां नोपयुज्यते, एवञ्च सति ()आः करिष्यतीत्येमाद्युपपद्यते। तत्रापि हि करिष्यतीत्येतत् पदं भविष्यत्येव काले वत्र्तत इति "लृट् शेषे च" ३।३।१३ इत्येव लृट् सिद्धः। भविष्यदनद्यतनस्तु कालोऽयम्। यद्युत्तरकालः प्रतीयते तथाप्यसौ वाक्यार्थ इति पदसंस्कारे नाश्रीयते। यदि तु वाक्यगम्योऽपि कालः पदसंस्कारे समाश्रीयेत, तदा तु करिष्यतीत्येवमादि नोपपद्येत-- भविष्यदनद्यतने लुटैव भवितव्यमिति कृत्वा॥
बाल-मनोरमा
वर्तमानसामीप्ये वर्तमानवद्वा ६१३, ३।३।१३१

वर्तमानसामीप्ये। स्वर्थे प्यञिति। अस्मादेव निर्देशाच्चतुर्वर्णादेराकृतिगणत्वाद्वेति भावः। इत्यारभ्येति। तृतीयस्य द्वितीये "वर्तमान ल"डित्यारभ्य आपादसमाप्तेः "उणादयो बहुल"मिति तृतीयपादादिमसूत्रात्पाग्वर्तमानाधिकारः। तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यो वर्तमाने प्रत्यया वहिताते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यो वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः। अत्र भूते भविष्यति चेत्यार्थिकं, तयोरेव वर्तमानसामीप्यसत्त्वात्। कदा आगतोऽसीत्यगतं प्रति प्रश्नः। अयमागच्छामित्युत्तरम्। अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः। वर्तमानसमीपकाले भूते लट्। "अय"मित्यनेन आगमनकालीनं प्रस्वेदपरिकरबन्धादियुक्तं रूपं निर्दिश्यते इदानीमागमनं सूचयितुम्। आगममिति। वर्तमानवत्त्वाऽभावे भूते लुङ्। कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामीत्युत्तम्। अव्यवहितोत्तरकाले गमिष्यामीत्यर्थः। "एष" इति तु अयमितिवद्वयाख्येयः। वर्तमानकालसमीपे भविष्यति लट्। गमिष्यामि वेति। वर्तमानवत्त्वाऽभावे भविष्यति लृट्।

तत्त्व-बोधिनी
वर्तमानसामीप्ये वर्तमानवद्वा ५०४, ३।३।१३१

वर्तमान। स्वर्थे ष्यञिति। अस्मादेव सामीप्य इति निर्देशात्ष्यञि सिद्धे "चतुर्वर्णाअदिभ्यः" इति वार्तिकं प्रपञ्चार्थमित्याहुः। न चाऽत्र "पूरणगुणे"ति निषेधात्षष्ठीसमासो नप्राप्नोतीति वाच्यम्, अनेनैव निर्देशेन तन्निषेधस्याऽनित्यत्वाऽभ्युपगमात्।तेन "बुद्धमान्द्य"मित्यादि सिद्धम्। येनोपाधिनेति। धातुविशेषाद्युपाधिना। तथाहि पूड()जोः शानन्विहितः, स ताभ्यामेव धातुभ्यां भवति,न तु धात्वन्तरात्। तच्छीलादिविशिष्टे कर्तरि "अलङ्कृ"ञित्यारभ्य "भ्राजभासे"ति यावत् ये इष्णुजादय उक्तास्तेऽपि कृञादिभ्यो धातुभ्यस्तस्मिन्नुपाधौ सत्यैव भवन्ति। "कदा आगतोऽसी"ति भूतकालेन प्रश्नवाक्यम्, "आगच्छामी"त्युदाहरणे भूतकालाभिव्यक्तयेऽयमिति प्रयोगस्त्विदानीमेवागममिति वर्तमानसमीपभूतकालद्योतनाय। तेन ह्रागमनाऽविनाभूतं यद्रूपं परिकरबन्धादियुक्तं तत्प्रतिनिर्दिश्यते। न च "कदे"ति प्रश्ने उत्तरवाक्ययोः कालानुपादानादसङ्गतिः शङ्क्या, उत्तरत्राऽयमेषशब्दाभ्यामिदानीमिति कालावगमात्। सामीप्ये किम्?। कदा आगतो भवान्?। अस्मान्मासात्पूर्वस्मिन्मासे आगच्छम्। एतच्च सूत्रमाकरे प्रत्याख्यातम्। गङ्गासमीपे गङ्गात्वारोपवद्वर्तमानसमीपे वर्तमानत्वारोपसंभवात्।