लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सर्वम् अनुवर्तते। पूर्वेन भविष्यति विहितः सम्प्रति भूते विधीयते। भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां लृङ् प्रत्ययो भवति। उताप्योः समर्थयोर् लिङ्
३।३।१५२ इत्यारभ्य लिङ्निमित्तेषु विधानम् एतत्। प्राक् ततो विकल्पं वक्ष्यति। दृष्टो मया भवत्पुत्रो ऽन्नार्थी चङ्क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टो ऽभविष्यत्, तदा अभिक्ष्यत। न तु भुक्तवान्, अन्येन पथा स गतः।
"उताप्यरित्यारभ्य"इत्यादि। "उताप्योः समर्थययोः"
३।३।१५२ इत्येतत्प्रभृतिषु लिङ्()निमित्तेषु ह्रेतल्लृङविधानम्। कुत एतदित्याह-- "प्राक्" इत्यादि। यस्मात् प्राक् "वोताप्योः"
३।३।१४१ इति वक्ष्यते, ततश्च पारिशेष्याद्()भूते लिङो विधानं "वोताप्योः"
३।३।१४१ इत्यादिष्वेवावतिष्ठते। "न तु भुक्तवान्" इत्यादि। क्रियातिपर्तिं()त दर्शयति॥
भूते च। लिङ्()निमित्ते लृङ् स्याद्भूते भविष्यति च क्रियापत्तौ। अद्यतनाऽनद्यतनसाधारमं भूतसामान्यमिह ज्ञेयम्। अस्योदाहरणानि---"उताप्योः समर्थयोर्लिङ्" इत्यारभ्य "समानकर्तृकेषु तुमु"न्निति विहाय सप्तसूत्र्यां बोध्यानि, ततः प्राचीनेषु "वोताप्यो"रित्यनेन विकल्पोक्तेः।