पूर्वम्: ३।३।१४६
अनन्तरम्: ३।३।१४८
 
सूत्रम्
जातुयदोर्लिङ्॥ ३।३।१४७
काशिका-वृत्तिः
जातुयदोर् लिङ् ३।३।१४७

अनवक्लृप्त्यमर्षयोः इत्येव। जातु यदा इत्येतयोः उपपदयोः अनवक्लृप्त्यमर्षयोः गम्यमानयोः धातोः लिङ् प्रत्ययो भवति। लृटो ऽपवादः। जातु तत्रभवान् वृषलं याजयेत्, यन् नाम तत्रभवान् वृषलं याजयेत्, न श्रद्दधे, न मर्षयामि। जातुयदोर् लिङ्विधाने यदायद्योरुपसङ्ख्यानम्। यदा भवद्विधः क्षत्रियं याजयेत्, यदि भवद्विधः क्षत्रियं याज्येत्, न श्रद्दधे, न मर्षयामि। क्रियातिपत्तौ भूते वा लृङ्। भविष्यति नित्यम्।
न्यासः
जातुयदोर्लिङ्। , ३।३।१४७

"लृटोऽपवादः" इति। अनवक्लृप्त्यादिसूत्रेण ३।३।१४५ प्राप्तस्य। "यदायद्योरुपसंख्यानम्" इति। लिङेव यथा स्यात्, लृङ मा भूत्। उपसंख्यानशब्दस्य प्रतिपादनार्थः। तत्रेदं प्रतिपादनम्--अनवक्लप्त्यादि ३।३।१४५ सूत्रादिहापिशब्दऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन यदायद्योरपि भविष्यति॥
बाल-मनोरमा
जातुयदोर्लिङ् ६२७, ३।३।१४७

जातुयदोर्लिङ्।जातु यत् अनयोः प्रयोगे अनवक्लृप्त्यमर्,योर्लिङ् स्यादित्यर्थः। यदिति विभक्तिप्रतिरूपकमव्ययम्। "अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपी"ति लिङ्()लृटौ प्राप्तौ लिङेवेत्यर्तमिदम्। तदाह--- लृटोऽपवाद इति। यदायद्योरिति। यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसङ्ख्यानमित्यर्थः। जात्वादिशब्दा उदाहरणे अनवक्लृप्त्यमर्षद्योतकाः। त्वादृशो हिरं निन्देदित्यतेतन्नावकल्पयामि, न मर्षयामि वेत्यन्वयः। नावकल्पयामीत्यस्य न संभवायामीत्यर्थः। लृङ् प्राग्वदिति। भविष्यति नित्यं लृङ्भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः, जात्वादियोगस्तु, अनवक्लृप्त्यमर्षयोश्च लिङ्()निमित्तत्वादिति भावः।

तत्त्व-बोधिनी
जातुयदोर्लिङ् ५१८, ३।३।१४७

जातुयदोर्लिङ्। अनवक्लृप्त्यमर्षयोरिति वर्तते। तथा च"अनवक्लृप्त्यमर्षयो"रिति लिङ्लृटोः प्राप्तयोर्वचनमिदं लृरटो बाधनार्थम्। तदाह-- लृटोऽपवाद इति। अयं कालत्रये। लृङ् प्राग्वदिति। क्रियाऽतिपत्तौ भूते वा, भविष्यति नित्यमित्यर्थः। "जातु भवान् हरिमनिन्दिष्य"दित्याद्युहार्तव्यम्। अगर्हार्थमिदम्। गर्हायां तु जातुयोगे लडुक्तः।