पूर्वम्: ३।३।१५३
अनन्तरम्: ३।३।१५५
 
सूत्रम्
सम्भवानेऽलमिति चेत् सिद्धाप्रयोगे॥ ३।३।१५४
काशिका-वृत्तिः
सम्भावने ऽलम् इति चेत् सिद्धाप्रयोगे ३।३।१५४

लिङित्येव। सम्भावनम् क्रियासु योग्यताध्यवसानम्, शक्तिश्रद्धानम्। तदिदानीम् अल्मर्थेन विशेष्यते। तच् चेत् सम्भावनं पर्याप्तमवितथं भवति। सिद्धाप्रयोगे इत्यलमो विशेषणम्। सिद्धश्चे दलमो ऽप्रयोगः। क्व च असौ सिद्धः? यत्र गम्यते चार्थो न च असौ प्रयुज्यते। तदीदृशे सम्भावनोपाधिके ऽर्थे वर्तमानाद् धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। अपि पर्वतं शिरसा भन्द्यात्। अपि द्रोणपाकं भुञ्जीत। अलम् इति किम्? विदेशस्थायी देवदत्तः प्रायेन गमिष्यति ग्रामम्। सिद्धाप्रयोगे इति किम्? अलं देवदत्तो हस्तिनं हनिष्यति। क्रियातिपत्तौ भूते भविष्यति च नित्यं लृङ् भवति।
न्यासः
सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे। , ३।३।१५४

"योग्यताध्यवसानम्" इति। योग्यता = सामथ्र्यम्, तस्याध्यवसानम्। सा येनाध्यवसीयते निश्चीयते तद्योग्यताध्यवसानम् = ज्ञानम्, सम्भावनमुच्यते। तमेवार्थं पर्यायान्तरेण विस्पष्टीकर्त्तुमाह-- "शक्तिश्रद्धानम्" इति। शक्तिः = सामथ्र्यम्, सा श्रद्धीयते येन ज्ञानेन तच्छक्तिश्रद्धानम्। "तत्" इति। सम्भावनम्"। "पर्याप्त्या" इति। सामर्थ्येन।एतेन पर्याप्ताविह वत्र्तमानोऽलंशब्दो गृह्रते, न तु भूषणादाविति दर्शयति। "पर्याप्तम्" इति। शक्तम्, स्वकार्यनिर्वत्र्तनक्षममित्यर्थः। स्वकार्यं पुनस्तस्य विपरीतविषयपरिच्छेदः। "अवितथम्" इति। विद्यमानविषयत्वात्। एतेन पर्याप्त्यर्थं एवास्य स्वीकृतिः। एवं हि तद्विपरीतविषयं भवति यदि विद्यमानविषयत्वादवितथं भवति, नान्यथा। "अलमःर"इति। अलंशब्दस्य। कुत एतत्? इतिकरणेनार्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकतयाऽलंशब्दस्य व्यवस्थापनात्। अलमर्थः सम्भावनस्य विशेषमं नोपपद्यते, ततश्च यदुक्तम्-- "तदिदानीमलमथन विशेष्यते" इति तद्विघटते? नैष दोषः"; आवृत्तिरलंशब्दस्य करिष्यते, तत्रैकस्य सूत्रोपात्तस्यार्थपदार्थकता भविष्यति, आवृत्तस्येतिकरणेनाभिसम्बन्धादर्थपदार्थतायाः प्रच्युतस्य शब्दपदार्थकता चात्र गम्यते। "चार्थः" इति। अर्थात्, प्रकरणाद्वा। "{न चासौ प्रयुज्यते-काशिका} न तु प्रयुज्यते" इति।अवगतार्थत्वात्। "{ तदीदृशसंभावनोपाधिकेऽर्थे -- काशिका} क्रियासम्भावनोपाधिके" इति। क्रियासम्भावनमुपाधिविशेषणं यस्यार्३तस्य स तथोक्तः। "अपि पर्वतं शिरसा भिन्द्यात्" इति। पूर्ववत् "श्नसोरल्लोपः"६।४।१११। अत्र यत् पर्वतभेदनविषयं सामथ्र्यं पुंसः सम्भाव्यते तत् तस्य विद्य एवेत्यवितथत्वात् पर्याप्तं सम्भावनम्। "प्रायेण स गमिष्यति" इति। अस्त्यत्र सम्भावनं प्रायशब्दात् प्रतीयमानम्, अलमर्थस्तु नास्ति; तेन भविष्यत्कालविवक्षायां लृडेव भवति न लिङ॥
बाल-मनोरमा
संभावनेऽलमितिचेत्सिद्धाऽप्रयोगे ६३४, ३।३।१५४

संभावने। अलमर्थोऽत्र प्रौढिरिति। पर्याप्तिरित्यर्थः। विपरिणम्यते इति। संभावने इति यत् सप्तम्यन्तं तदावर्त्त्य प्रथमया संभावनमिति च विपरिणम्यते, यत्तु अलमिति प्रथमान्तं तदावर्त्त्य सप्तम्या अलमि इति च विपरिणम्यत इत्यर्थः। "छान्दसं विभक्तिव्यत्ययमाश्रित्ये"ति शेषः। तथा च संभावने इति सप्तम्यन्तं, संभावनमिति प्रथमान्तं च लभ्यते। तथा अलमिति प्रथमान्तमलभि इति सप्तम्यन्तं च लभ्यते। तत्र संभावने इति सप्तम्यन्तमर्थनिर्देशपरं। तदाह-- संभावनेऽर्थ लिङ्()स्यादिति। उत्कटान्यतरकोटिकं ज्ञान संभावनमित्युच्यते। संभावनमितिप्रथमान्तं तु अलमिति प्रथमान्तेन विशेष्यते। इति र्हेतौ। तदाह-- तच्चेदिति। तत् = संभावनम्(), अलं = पर्याप्तिहेतुकं चेदित्यन्वयः। षिधधातोज्र्ञानार्थकात् "मतिबुद्धी"त वर्तमाने कर्मणि क्ते सिद्धशब्दः। सिद्धे गम्यमानेऽप्यलमर्थे अप्रयोगो यस्य स सिद्धाऽप्रयोगस्तस्मिन्निति विग्रहः। अलमीति सप्तम्यन्तमत्र विशेष्यसमर्पकं संबध्यते। अलंशब्दप्रयोगं विनापि तदर्थे गम्यमाने इति यावत्। तदाह-- सिद्धाऽप्रयोगे सतीति। "अलमी"ति शेषः। अपि गिरिमिति। बलवन्तं पुरुषमधिकृत्य अत्युक्तिरियम्। प्रायेण शिरसा गिरि भ#एत्तुमयं समर्थ इत्यर्थः। गिरिभेदसंभावनस्य सामथ्र्यहेतुकत्वद्योतकोऽपिशब्दः। अत्र लिङ्()निमित्तसत्त्वात् क्रियातिपत्तौ भूते लृङ्। "अलमिति संभावने सिद्धाऽप्रयोगश्चे"दिति सुवचम्।