पूर्वम्: ३।३।१५६
अनन्तरम्: ३।३।१५८
 
सूत्रम्
इच्छार्थेषु लिङ्लोटौ॥ ३।३।१५७
काशिका-वृत्तिः
इच्छाऽर्थेषु लिङ्लोटौ ३।३।१५७

इच्छार्थेषु धतुषु उपपदेषु धतोः लिङ्लोटौ प्रत्ययौ भवतः। सर्वलकाराणाम् अपवादः। इच्छामि भुञ्जीत भवान्। इच्छामि भुङ्क्ताम् भवान्। कामये। प्रार्थये। कामप्रवेदन इति वक्तव्यम्। इह मा भूत्, इच्छन् करोति।
न्यासः
इच्छार्थेषु लिङलोटौ। , ३।३।१५७

"भुङ्क्ताम्" इति। टेरेत्वे कृत आम्। "कामप्रवेदन इति वक्तव्यम्" इति। कामस्येच्छायाः प्रवेदने = प्रकाशने इमौ लिङलोटौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- "कामप्रवेदनेऽकच्चिति" ३।३।१५३ इत्यतः कामप्रवेदनग्रहणमनुवत्र्तते, तेन कामप्रेवदन एव भवतः। अत्र लिङ्()ग्रहणं किमर्थम्, न "इच्छार्थेषु लोट् च" इत्येवोच्यत, चकारेण समुच्चीयमानोऽपि प्रकृतो लिङ भविष्यति?नैतदस्ति; विभाषया हि भविष्यत्काल इत्युक्तम्,ततो यद्यसावनुवत्र्तते विकल्पः स्यात्। तद्बाधनार्थमेव पुनर्लिङग्रहणं क्रियते॥
बाल-मनोरमा
इच्छार्थेषु लिङ्लोटौ ६३७, ३।३।१५७

इच्छार्थेषु लिङ्()लोटौ। इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्()लोटौ स्तः। सर्वलकारापवादः। असमानकर्तृकविषयमिदम्। समानकर्तृकेषु तु "लिङ् चे"ति वक्ष्यते। इच्छामिति। भुञ्जीत भवानिति इच्छामीत्यन्वयः। कामप्रवेदने इति। परं प्रति स्वाभिप्रायाविष्करणे "इच्छार्थेषु लिङ्लोटा"विति विधिरित्यर्थः। इच्छन्करोतीति। परं प्रति स्वाभिप्रायाविष्करणाऽभावान्न लिङ्()लोटाविति भाव-। "कामप्रवेदनेऽकच्चिती"ति सूत्रं तु प्रकरणादिना यत्र कामप्रवेदनं, नत्विच्छार्थकमुपपदमस्ति तद्विषयमिति बोध्यम्। इत उत्तरसूत्रं "समानकर्तृकेषु तुमु"न्निति तु कृदधिकारे व्याख्यास्यते।

तत्त्व-बोधिनी
इच्छार्थेषु लिङ्लोटौ ५२८, ३।३।१५७

इच्छार्थेषु लिङ्लोटौ। एषूपपदेषु धातोरेतौ स्तः। सर्वलकाराणामपवादः। "लिङ् चे"त्यनेन रसमानकर्तृकेषु लिङो विधानादिह लिङ्लोटटावसमानकर्तृकेषु भवत इति बोध्यम्।

* कामप्रवेदन इति वक्तव्यम्। इच्छन् करोतीति। अत्राऽनभिधानात् "समानकर्तृकेषु" इति तुमुन् न। ननु "कामप्रवेदनेऽकच्चिती"त्यनेनैव लिङः सिद्धत्वादिह लिड्ग्रहणं मास्तु, लोडेव विधीयतामिति चेन्न, लोटा लिङो बाधा माभूदिति लिङ्ग्रहणस्याऽत्रावश्यकत्वात्। न चैवम् "इच्छार्थेषु लोट् चे"त्येव सूत्र्यतामिति वाच्यम्। चकारेण लिङोऽनुकर्षे तत्संबद्धविभाषाग्रहणस्याऽनुकर्षणप्रसक्त्या लकारान्तमपि स्यादिति। न चैवमपि "कामप्रवेदने" इत्युपसङ्ख्यानादनेनैव सिद्धे "कामप्रवेदनेऽकच्चिती"ति सूत्रं मास्त्विति वाच्यम्, यत्राऽर्थप्रकरणादिना कामप्रवेदनं गम्यते इच्छार्थकमुपपदं नास्ति तदर्थं तदारम्भात्।