पूर्वम्: ३।३।३१
अनन्तरम्: ३।३।३३
 
सूत्रम्
प्रे स्त्रोऽयज्ञे॥ ३।३।३२
काशिका-वृत्तिः
प्रे स्त्रो ऽयज्ञे ३।३।३२

स्तृञाच्छादने, अस्माद् धातोः प्रशब्दे उपपदे घञ् प्रत्ययो भवति न चेद् यज्ञविषयः प्रयोगो भवति। शङ्खप्रस्तारः। अयज्ञे इति किम्? बहिर्ष्प्रस्तरः।
न्यासः
प्रे स्त्रोऽयज्ञे। , ३।३।३२

"बर्हिष्प्रस्तरः"इति। "इदुदुपधस्य चाप्रत्ययस्य" (८।३।४१ ) विसर्जनीयस्य षत्वम्॥