पूर्वम्: ३।३।३४
अनन्तरम्: ३।३।३६
 
सूत्रम्
उदि ग्रहः॥ ३।३।३५
काशिका-वृत्तिः
उदि ग्रहः ३।३।३५

उदि उपपदे ग्रहेर् धातोः घञ् प्रत्ययो भवति। अतो ऽपवादः। उद्ग्राहः। छन्दसि निपूर्वादपि इष्यते स्रुगुद्यमननिपतनयोः। हकारस्य भकारः। उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्।
न्यासः
उदि ग्रहः। , ३।३।३५

"अपोऽपवादः" इति। "ग्रहवृदृनिश्चिगमश्च" ३।३।५८ इति प्राप्तस्य। "{छन्दसि विपूर्वादपीष्यतेरुआउगुद्यमननिपातनयोः"इत्येव वार्त्तिकपाठो मुद्रितो दृश्यते।} छन्दसि तु"इत्यादि। यज्ञपात्रविशेषो येनाहुतिर्दीयते तत्रुआउगुच्यते, तस्योद्यमनम् = ऊध्र्वलनयनम्, निपातनम् = धस्तान्नयनम्ेतयोरर्थयोग्र्रहेश्छन्दसि विषये घञिष्यते। स च "कृत्यल्युटो बहुलम्"३।३।११३ इति लभ्यत इति वेदितव्यम्। "निग्राभम्" इति। ह्मग्रहोर्भश्छन्दस्युपसंख्यानाद्धकारस्य भकारः॥
तत्त्व-बोधिनी
उदि ग्रहः १५२५, ३।३।३५

उदि ग्रहः। भावादौ घञ् स्यात्। "ग्रहवृदृ" इति प्राप्तस्याऽपोऽपवादः।