पूर्वम्: ३।३।३६
अनन्तरम्: ३।३।३८
 
सूत्रम्
परिन्योर्नीणोर्द्यूताभ्रेषयोः॥ ३।३।३७
काशिका-वृत्तिः
परिन्योर् नीणोर् द्यूताभ्रेषयोः ३।३।३७

परिशब्दे निशब्दे च उपपदे यथासङ्ख्यं नियः इणश्च धातोः घञ् प्रत्ययो भवति। अचो ऽपवादः। द्यूताभ्रेषयोः, अत्र अपि यथासङ्ख्यम् एव सम्बन्धः। द्यूतविषयः चेन् नयतेरर्थः, अभ्रेषविषयश्चेदिणर्थः। पदार्थानाम् अनपचारो यथाप्राप्तकरणम् अभ्रेषः। द्यूते तावत् परिणायेन शारान् हन्ति। समन्तान् नयनेन। अभ्रेषे एषो ऽत्र न्यायः। द्यूताभ्रेषयोः इति किम्? परिणयः। न्ययं गतः पापः।
न्यासः
परिन्योर्नीणोद्र्यूताभ्रेषयोः। , ३।३।३७

"पदार्थानाम्" इत्यादि। पदार्शब्दो वस्तुवाची। कुत्सितश्चारः = अपचारः।यताप्राप्तस्याकरणमित्यर्थः। यथाप्राप्तस्याकरणमसाध्वेतदितिलोके कुत्स्यते, तस्मादन्यः शान्तश्चारोऽनपचारः। एतमेवार्थं पर्यायान्तरेण व्यक्तीकर्त्तुमाह-- "यथाप्राप्तस्य करणम्" इति। यद्यत् प्राप्तिमिति "यथाऽसादृश्ये"२।१।७ इतिवीप्सायामव्ययीभावः। करणम् = सम्पादनम्। एतुदुक्तं भवति-- युक्तेरागमाल्लोकप्रसिद्धेर्वा यः पदार्थानां प्राप्नोति तस्य सम्पादनमभ्रेष इति।"{ भ्रेषृ गतौ-धा।पा।} भ्रेष चलने" (धा।पा।८८४) भ्रेषणम् = भ्रेषः, स्वरूपात् तच्चलनम्। अभ्रेषो भ्रेषस्वरूपादचलनम्। एवं हि पदार्थाः स्वरूपादचलिता भवन्ति यदि प्राप्तं नातिवत्र्तन्ते। "परिमायेन" इति। "उपसर्गादसमासेऽपि णोपदेशस्य" ८।४।१४ इति णत्वम्। "हन्ति" इति बाधते। "समन्तान्नयनेन" इति। परिणायेनेत्यस्येदमर्थकथनम्॥
तत्त्व-बोधिनी
परिन्योर्नीणोद्र्यूताऽभ्रेषयोः १५२६, ३।३।३७

परिन्योः। अक्षादिभिः क्रीडनं द्यूतम्। यथाप्राप्तकरणमभ्रेषः।