पूर्वम्: ३।३।४३
अनन्तरम्: ३।३।४५
 
सूत्रम्
अभिविधौ भाव इनुण्॥ ३।३।४४
काशिका-वृत्तिः
अभिविधौ भावे इनुण् ३।३।४४

अभिविधिरभिव्याप्तिः, क्रियागुणाभ्यां कार्त्स्न्येन सम्बन्धः। अभिविधौ गम्यमाने धातोः भवे इनुण् भवति। साङ्कूटिनम्। सांराविणम्। सान्द्राविणं वर्तते। अभिविधौ इति किम्? सङ्कोटः। सन्द्रावः। संरावः। भावे इति वर्तमने पुनर् भावग्रहणं वासरूपनिरासार्थम्, तेन घञ् न भवति। ल्युटा तु समावेश इष्यते। सङ्कूटनं वर्तते। तत् कथम्? कृत्यल्युटो बहुलम् ३।३।११३ इति।
न्यासः
अभिविधौ भाव इनुण् , ३।३।४४

"सांकूटिनम्" इति। "कूट {परितापे (परिदाहे इत्यन्ये)-धा।पा।} (धा।पा।१८९०), "अणिनुणः" ५।४।१५ इतीनुमन्तात् स्वार्थिकोऽण्। "इनण्यनपत्ये" ६।४।१६४ इति प्रकृतिभावात् "नस्तद्धिते" ६।४।१४४ इति टिलोपो न भवति। "संरावः" इति। "उपसर्गे रुवः ३।३।२२ इति घञ्। "संद्रावः" इति। अत्रापि "समि युद्रुदुवः" ३।३।२३ इति। ननु च भाव इति वत्र्तत एव, तत्किमर्थं पुनस्तद्()ग्रहमित्याह-- "भावे" इति। "वत्र्तमाने" इत्यादि। भावग्रहणमिहातिरिच्यते, तदितरिच्यमानं वासरूपनिरासार्थं विज्ञायते। तेन क्तेन सहेनुणः समावेशो न भवति। ननु च कारक इत्यपि वत्र्तते, ततस्तन्निवृत्त्यर्थं भावग्रहणं कस्मान्न भवति? एवं मन्यते-- भावे कारक इति द्वये प्रकृतेऽपि प्रयोगदर्शनवशाद्वयवस्था भवति, यथा णचः। स हि द्वथेऽपि प्रकृते लक्ष्यदर्शनानुरोधात् पुनग्र्रहमन्तरेणापि यथा भाव एव विज्ञायते, न कराके, तथात्रेनुणपि भाव एव विज्ञास्यते। तस्माद्वासरूपविधिनिरासार्थमेव पुनर्भावग्रहणं युक्तमिति। यद्येवम्, तर्हि, यथा घञेनुणः समावेशो न भवति तथा ल्युटापि न स्यादित्यत आह-- "ल्युटा तु" इत्यादि। गतार्थम्। इनुणो णकारो वृद्ध्यर्थः। उकार उच्चारणार्थः॥
तत्त्व-बोधिनी
अभिविधौ भाव इनुण् १५३३, ३।३।४४

अभिविधौ। अभिविधौ किम्?। संरावः। वासरूपेण घञ् क्तश्च न भवति, पुनर्भावग्रहणात्। नच कर्तृभिन्नकारकनिवृत्तये भावग्रहममिति वाच्यं, पूर्वसूत्र इव शक्तिस्वाभाव्यादेवेनुणोऽप्रवृत्तेः। ल्युटा तु समावेश इष्यते--संरवणमिति। तच्च बाहुलकाल्लभ्यत इत्याकरः।