पूर्वम्: ३।३।२१
अनन्तरम्: ३।३।२३
 
सूत्रम्
उपसर्गे रुवः॥ ३।३।२२
काशिका-वृत्तिः
उपसर्गे रुवः ३।३।२२

उपसर्गे उपपदे रौतेर् धातोर् घञ् प्रत्ययो भवति। अपो ऽपवादः। संरावः। उपरावः। उपसर्गे इति किम्? रवः।
न्यासः
उपसर्गे रुवः। , ३।३।२२

"अपोऽपवादः" इति। "ऋदोरप्" ३।३।५७ इति प्राप्तस्य। उत्तरसूत्रेणाप्युवर्णान्ताद्धञ् विधीयमानोऽप एवापवादो वेदितव्यः॥
तत्त्व-बोधिनी
उपसर्गे रुवः १५२१, ३।३।२२

रव इति। "ॠदोर"बित्यप्।