पूर्वम्: ३।३।५१
अनन्तरम्: ३।३।५३
 
सूत्रम्
प्रे वणिजाम्॥ ३।३।५२
काशिका-वृत्तिः
प्रे वणिजाम् ३।३।५२

ग्रहः इति वर्तते। विभाषा इत्येव। प्रशब्दे उपपदे ग्रहेर् धातोः विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तवाच्यश्चेद् वणिजां सम्बन्धी भवति। वणिक्सम्बन्धेन च तुलासूत्रं लक्ष्यते, न तु वणिजस् तन्त्रम्। तुला प्रगृह्यते येन सूत्रेण स शब्दार्थः। तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण चरति वणिगन्यो वा। वणिजाम् इति किम्? प्रग्रहो देवदत्तस्य।
न्यासः
प्रे वणिजाम्। , ३।३।५२

"वणिक्सम्बन्धन च" इत्यादि। तुलासूत्रं हि प्रायेण वणिजासम्बद्धम् = सहचरम्, ततः साहचर्याद्वणिक्सम्बन्धेन तदुपलक्ष्यते। नात्र वणिजां प्राधान्याम्। तस्मात् तदेव तुलादिसूत्रं तदन्यशब्दस्याभिधेयम्॥