पूर्वम्: ३।३।५३
अनन्तरम्: ३।३।५५
 
सूत्रम्
वृणोतेराच्छादने॥ ३।३।५४
काशिका-वृत्तिः
वृणोतेराच्छादने ३।३।५४

विभाषा प्र इति वर्तते। प्रशब्दे उपपदे वृणोतेः धातोः विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते। प्रावारः, प्रवरः। आच्छादने इति किम्? प्रवरा गौः।
न्यासः
वृणोतेराच्छादने। , ३।३।५४

"वृणोतेः"इति। श्नुविकरणेन निर्देशो वृङो निवृत्त्यर्थः। अत्रापि सामान्यवाचित्वे प्राग्वदाच्छादनशब्दादन्यत्र। पक्षे "ग्रहवृदृ" ३।३।५८ इत्यादिनाब्भवति॥
तत्त्व-बोधिनी
वृणोतेराच्छादने १५३९, ३।३।५४

वृणोते। [प्रावार इति। "उपर्गस्य घञ्यमनुष्ये बहुल"मित्युपसर्गस्य दीर्घः]। आच्छादने किम्?। प्रवरो गौः। प्रशस्त इत्यर्थः।