पूर्वम्: ३।३।६८
अनन्तरम्: ३।३।७०
 
सूत्रम्
समुदोरजः पशुषु॥ ३।३।६९
काशिका-वृत्तिः
समुदोरजः पशुषु ३।३।६९

समुदोरुपपदयोः अजएर् धातोः पशुविषये धात्वर्थे अप् प्रत्ययो भवति। घञो ऽपवादः। अज गतिक्षेपणयोः इति पठ्यते। स सम्पूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे। संजः पशूनाम्। समुदायः इत्यर्थः। उदजः पशूनाम्। प्रेरणम् इत्यर्थः। पशुषु इति किम्? समाजो ब्राह्मणानाम्। उदाजः क्षत्रियाणाम्।
न्यासः
समुदोरजः पशुष। , ३।३।६९