पूर्वम्: ३।३।७७
अनन्तरम्: ३।३।७९
 
सूत्रम्
अन्तर्घनो देशे॥ ३।३।७८
काशिका-वृत्तिः
अन्तर्घनो देशे ३।३।७८

अन्तः पूर्वात् हन्तेः अप् प्रत्ययो भवति, घनादेशश्च भवति देशे ऽभिधेये। अन्तर्घनः। संज्ञीभूतो वाहीकेसु देशविशेष उच्यते। अन्ये णकारं पठन्ति अन्तर्घणो देशः इति। तदपि ग्राह्यम् एव। देशे इति किम्? अन्तर्घातो ऽन्यः।
न्यासः
अन्तर्घनो देशे। , ३।३।७८

"अन्तर्घनः"इति। अन्तर्हण्यन्ते प्राणिनोऽत्रेत्यधिकरणेऽप्। "तवपि ग्राह्रमेव" इति। उभयथा चाचार्ये शिष्याणां प्रतिपादित्वात्॥