पूर्वम्: ३।३।८०
अनन्तरम्: ३।३।८२
 
सूत्रम्
अपघनोऽङ्गम्॥ ३।३।८१
काशिका-वृत्तिः
अपघनो ऽङ्गम् ३।३।८१

अपपूर्वस्य हन्तेः अपघनः इति निपात्यते, अङ्गं चेत् तद् भवति। अपघनः अङ्गम्। अवयवः एकदेशः, न सर्वः। किं तर्हि? पाणिः पादश्च अभिधीयते। अपघातः अन्यः।
न्यासः
अपघनोऽङ्गम्। , ३।३।८१

"अपघनः"इति। अपहन्यतेऽनेनेति करणेऽप्॥