पूर्वम्: ३।३।८२
अनन्तरम्: ३।३।८४
 
सूत्रम्
स्तम्बे क च॥ ३।३।८३
काशिका-वृत्तिः
स्तम्बे क च ३।३।८३

करणे हनः इति वर्तते। स्तम्बशब्दे उपपदे करणे कारके हन्तेः कः प्रत्ययो भवति। चकारातप् च, तत्र घनादेशः। स्तम्बघ्नः, स्तम्बघनः। स्त्रियां स्तम्बघ्ना, स्तम्बघना इति इष्यते। करणे इत्येव, स्तम्बघातः।
न्यासः
स्तम्बे क च। , ३।३।८३

"तत्र च" इति। अनन्तरोक्तेऽपि। "घनादेशः"इति। "मूर्त्तौ घनः" ३।३।७७ इत्यतः "घनः" इत्यतस्यानुवृत्तेः। "स्तम्बघ्नः"इति। पूर्ववत् कुत्वोपधालोपौ॥