पूर्वम्: ३।३।८८
अनन्तरम्: ३।३।९०
 
सूत्रम्
ट्वितोऽथुच्॥ ३।३।८९
काशिका-वृत्तिः
ट्वितो ऽथुच् ३।३।८९

टु इत् यस्य, तस्मात् ट्वितो धातोः अथुच् प्रत्ययो भवति भावादौ। टुवेपृ कम्पने वेपथुः। टुओश्वि गतिवृद्ध्योः श्वयथुः। टुक्षु शब्दे क्षवथुः।
लघु-सिद्धान्त-कौमुदी
ट्वितोऽथुच् ८६२, ३।३।८९

टुवेपृ कम्पने, वेपथुः॥
न्यासः
ट्?वितोऽथुच्। , ३।३।८९

"वेपथुः" इति। वेपनम् = वेपथुः। स्वभावत एवैतदुभयं भावे भवतीति घञोऽपवादो विज्ञायते। घञ् तु वासरूपविधिनापि न भवति; अनभिधानात्। अथुचश्चकारः।अथुचश्चकारः स्वराथः॥