पूर्वम्: ३।३।९७
अनन्तरम्: ३।३।९९
 
सूत्रम्
व्रजयजोर्भावे क्यप्॥ ३।३।९८
काशिका-वृत्तिः
व्रजयजोर् भावे क्यप् ३।३।९८

उदात्तः इत्येव। व्रजयजोः धात्वोः स्त्रीलिङ्गे भावे क्यप् प्रत्ययो भवति उदात्तः। क्तिनो ऽपवादः। व्रज्या। इज्या। पित्करणम् उत्तरत्र तुगर्थम्।
न्यासः
व्रजयजोर्भावे क्यप्। , ३।३।९८

"इज्या" इति। वच्यादिसूत्रेण ६।१।१५ सम्प्रसारणम्। यद्युदात्तं विधीयते पित्करणं किमर्थमित्याह-- "पित्करणमुत्तरत्र" इत्यादि॥
तत्त्व-बोधिनी
व्रजयजोर्भावे क्यप् १५५९, ३।३।९८

व्रजयजोः। उदात्त इत्येव। पित्करमं तूत्तरत्र तुगर्थम्।