पूर्वम्: ३।४।१०८
अनन्तरम्: ३।४।११०
 
सूत्रम्
सिजभ्यस्तविदिभ्यः च॥ ३।४।१०९
काशिका-वृत्तिः
सिजभ्यस्तविदिभ्यश् च ३।४।१०९

अलिङर्थः आरम्भः। सिचः परस्य, अभ्यस्तसंज्ञकेभ्यो, वेत्तेश्च उत्तरस्य झेर् जुस्, आदेशो भवति। अभ्यस्तविदिग्रहणम् असिजर्थम्। ङित इति च अनुवर्तते। सिचस्तावत् अकार्षुः। अहार्षुः। अभस्तात् अबिभयुः। अजिह्रयुः। अजागरुः। विदेः अविदुः।
लघु-सिद्धान्त-कौमुदी
सिजभ्यस्तविदिभ्यश्च ४४९, ३।४।१०९

सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्। आतिषुः। आतीः। आतिष्टम्। आतिष्ट। आतिषम्। आतिष्व। आतिष्म। आतिष्यत्॥ षिध गत्याम्॥ ३॥
न्यासः
सिजभ्यस्तविदिभ्यश्च। , ३।४।१०९

"वेत्तेश्च" इति निर्देशेन लुग्विकरणस्यैवेह ग्रहणमिति दर्शयति। तस्यैव हि झिरनन्तरः सम्भवति,नान्येषां विदीनाम्। विकरणैव्र्यवधानात्। सत्ताविचारणार्थयोरात्मनेपदित्वात् झेरसम्भव एव, तस्माल्लुग्विकरणस्यैव ग्रहणं युक्तम्। "अभ्यस्तविदिग्रहणमसिजर्थम्" इति। यद्यभ्यस्तविदिग्रहणमसिजर्थम्, एवं सति लडादिसम्बन्धिनोऽपि झेः प्राप्नोतीत्यत आह--- "ङित इति चानुवत्र्तते" इति। तेन ङिल्लकारसम्बन्धिन एव झेर्जुस् भविष्यति, नान्येषामित्यभिप्राय-। "अबिभयुः, अजिह्ययुः" इति। "ञि भीभये" (धा।पा।१०८४), "ह्यी लज्जायाम्" (धा।पा।१०८५), "जुजि च" ७।३।८३ इति गुणः, जुहोत्यादिभ्यः शपः श्लुः, "श्लौ" ६।१।१० इति द्विर्वचनम्। "अजागरुः" इति। अदादित्वाच्छपो लुक्; जागर्तेः "जक्षित्यादय षट्" ६।१।६ इत्यभ्यस्तसंज्ञा॥
बाल-मनोरमा
सिजभ्यस्तविदिभ्यश्च ७४, ३।४।१०९

सिजभ्यस्तविदि। "झेर्ज"सिति सूत्रमनुवर्तते। "नित्यं ङित" इत्यतो ङित इति च। तदाह--सिचोऽभ्यस्तादित्यादिना। इति प्राप्त इति। "लिङो झेर्जुसी"ति शेषः।