पूर्वम्: ३।४।१४
अनन्तरम्: ३।४।१६
 
सूत्रम्
अवचक्षे च॥ ३।४।१५
काशिका-वृत्तिः
अवचक्षे च ३।४।१५

कृत्यर्थे छन्दसि इत्येव। अवपूर्वात् चक्षिङः एश् प्रत्ययो निपात्यते। रिपुणा नावचक्षे। नावख्यातव्यम् इत्यर्थः।
न्यासः
अवचक्षे च। , ३।४।१५

"एश्प्रत्ययो निपात्यते" इति। शित्करणं सार्वधातुकसंज्ञार्थम्। तेनार्धधातुके विधीयमानः सार्वधातुके "चक्षिङ ख्याञ्" २।४।५४ इति ख्याञादेशो न भवति॥