पूर्वम्: ३।४।२३
अनन्तरम्: ३।४।२५
 
सूत्रम्
विभाषाऽग्रेप्रथमपूर्वेषु॥ ३।४।२४
काशिका-वृत्तिः
विभाषा ऽग्रे प्रथमपूर्वेषु ३।४।२४

अप्राप्तविभाषेयम्। आभीक्ष्ण्ये इति न अनुवर्तते। अग्रे प्रथम पूर्व इत्येतेषु उपपदेषु समानकर्तृकयोः पूर्वकाले धातोः क्त्वाणमुलौ प्रत्ययु विभाषा भवतः। अग्रे भोजं व्रजति, अग्रे भुक्त्वा व्रजति। प्रथमं भोजं व्रजति, प्रथमं भुक्त्वा व्रजति। पूर्वं भोजं व्रजति, पूर्वं भुक्त्वा व्रजति। विभाषाग्रहणम् एताभ्यां मुक्ते लडादयो ऽपि यथा स्युः। अग्रे भुङ्क्ते ततो व्रजति। ननु च वासरूप इति भविस्यति? क्त्वाणमुलौ यत्र सह विधीयेते तत्र वासरूपविधिर् न अस्ति इत्येतदनेन ज्ञाप्यते, तेन आभीक्ष्ण्ये लडादयो न भवन्ति। उपपदसमासः कस्मान् न क्रियते? उक्तं तत्र एव कारस्य प्रयोजनम्, अमैव यत् तुल्यविधानम् उपपदं तत् समस्यते, न अन्यतिति।
न्यासः
विभाषाग्रेप्रथमपूर्वेषु। , ३।४।२४

"आभीक्षण्ये" इति नानुवत्र्तते" इति। "अप्राप्तविभाषेयम्" इत्यत्रेयं युक्तिः। ननु च प्रताप्तविभाषेयं युक्ता,णमुल्यप्राप्ते क्त्वाप्रत्यये "समानकर्त्तृकयोः" (३।४।२१) इत्यादिना प्राप्ते सत्यारम्भात्? नैतदस्ति; अनन्तरसूत्रविहितौ हि क्त्वाण्मुलावित्यधिकृत्याप्राप्तविभाषेयमित्युच्यते। यस्तु "समानकर्त्तृकयोः" ३।४।२१ इत्यादिना केवलः क्त्वा विहितस्तं प्रति विभाषाग्रहणं न कत्र्तव्यमेव; वासरूपविधिना तत्प्रतिपादितस्यार्थस्य सिद्धत्वात्। "ननु च" इत्यादिनाऽनन्तरोक्तविभाषाग्रहणस्य प्रयोजनं विघटयति। "क्त्वाणमुली यत्र" इत्यादि। वासरूपविधिनैव पक्षे लडादिषु। सिद्धेषु यत् तदर्थं विभाषाग्रहणं क्रियते तेन यत्र क्त्वाणमुलौ युगपद्विधीयेते तत्र वासरूपविधिर्नास्तीत्येषोऽर्थो ज्ञाप्यते। किमेतस्य प्रयोजनं ज्ञापनस्य? इत्याह-- "तेन" इत्यादि। "उपपदसमासः" इत्यादि। "अमैवाव्ययेन" २।२।२० इत्युपपदसमासः प्राप्नोति, स कस्मान्न भवतीत्याह-- "उक्तम्" इत्यादि। "अमैव यत् तुल्यविधानमुपपदं तत् समस्यते" (का।व।२।२।२०) इत्युक्तं प्राक्। अग्ने भृतीन्युपपदान्यमा चान्येन क्त्वाप्रत्ययेन तुल्यविधानम्, अतो न समस्यन्ते॥
तत्त्व-बोधिनी
विभाषाऽग्रेप्रथमपूर्वेषु १६१०, ३।४।२४

विभाषाऽग्रे। यद्यप्यग्रेशब्दो देशविशेषवचनोऽप्यस्ति, "प्रभोरग्रेभुङ्क्ते" इत्यादिप्रयोगात्, तथापीह कालविशेषवाच्येव गृह्रते, प्रथमशब्दसाहचर्यात्। "प्रथमं भुङ्क्ते" इत्यादौ तु काल एव हि प्रतीयते। "अग्रे" इति सप्तम्यन्तस्यानुक्रणम्। "प्रकृतिवदनुकरण"मित्यस्य वैकल्पिकत्वाद्विभक्तेर्लुङ्न कृतोऽस्यवामीय"मिति वत्। अग्रेभोजमिति। "अग्रेभोजमिति। "अमैवाव्ययेने"ति नियमाद्व्यस्तमेवेदं, न त्वत्रोपपदसमासः। नन्वग्रेप्रथमपूर्वशब्दैः पूर्वकालत्वमुच्यत इति कथमिह क्त्वाणमुलौ स्यातामिति चेदत्राहुः-- अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा व्रजतीति हि वाक्यार्थः। तत्राग्रेप्रभृतिभिर्भोक्रपेक्षया पूर्वत्वमुच्यते चेदत्रापि अन्येभ्यो भोक्तृभ्यः पूर्वं व्रजतीति व्रजनपेक्षया पूर्वत्वं तु क्त्वाणमुल्भ्यां द्योत्यत इत्याशङ्कैवात्र नास्तीति। नित्यमेव विधिरिति। अग्रे भुङ्क्ते इत्येव लडादिर्न प्रयुज्यत इतिभावः।