पूर्वम्: ३।४।३३
अनन्तरम्: ३।४।३५
 
सूत्रम्
निमूलसमूलयोः कषः॥ ३।४।३४
काशिका-वृत्तिः
निमूलसमूलयोः कषः ३।४।३४

कर्मणि इत्येव। निमूलसमूलशब्दयोः कर्मवाचिनोरुपपदयोः कषेः धातोः णमुल् प्रत्ययो भवति। निमूलकाषं कषति। समूलकाषं कषति। निमूलं समूलं कषति इत्यर्थः। इतः प्रभृति कषादीन् यान् वक्ष्यति तत्र कषादिषु यथाविध्यनुप्रयोगः ३।४।४६ इति।
न्यासः
निमूलसमूलयोः कषः। , ३।४।३४

"कषः" इति। "कष शिष" (धा।पा।६८५,६८७) इति हिंसार्थधातुवर्गे पठ()ते॥
तत्त्व-बोधिनी
निमूलसमूलयोः कषः १६१८, ३।४।३४

निमूलमिति। नियतं मूलमस्य निमूलम्। सह मूलेन समूलम्। निमूलसमूलकषणाऽभिन्नं कषणमिति शाब्दबोधः। तेनेति। अत्रेदं बोध्यं-- सामान्यं विशेष्यं, विशेषस्तु विशेषणम्। "आम्रो वृक्ष" इत्यादौ आम्रो विशेषणं, वृक्षस्तु विशेष्यमिति सर्वजनानुभवात्। ततश्चात्र निमूलकषणादिकं विशेषणं, केवलषणं तु विशेष्यमिति।