पूर्वम्: ३।४।४१
अनन्तरम्: ३।४।४३
 
सूत्रम्
संज्ञायाम्॥ ३।४।४२
काशिका-वृत्तिः
संज्ञायाम् ३।४।४२

संज्ञायां विषये बध्नातेः धातोः णमुल् प्रत्ययो भवति। क्रौञ्चबन्धं बध्नाति। मयूरिकाबन्धं बध्नाति। मयूरिकाबन्धं बधः। अट्टालिकाबन्धं बद्धः। बन्धविशेषाणां नामधेयानि एतानि।
न्यासः
संज्ञायाम्। , ३।४।४२