पूर्वम्: ३।४।५०
अनन्तरम्: ३।४।५२
 
सूत्रम्
प्रमाणे च॥ ३।४।५१
काशिका-वृत्तिः
प्रमाणे च ३।४।५१

तृतीयासप्तम्योः इत्येव। प्रमाणम् आयामः, दैर्घ्यम्। प्रमाणे गम्यमने तृतीयासप्तम्योः उपपदयोः धातोर् णमुल् प्रत्ययो भवति। द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति, द्व्यङ्गुले उत्कर्षम्, द्व्यङ्गुलेनोत्कर्षम्। त्र्यङ्गुलोत्कर्षम्।
न्यासः
प्रमाणे च। , ३।४।५१

"प्रमाणमायामः" इति। "आयामस्तु प्रमाणं स्यात्" इति वचनात्। दैघ्र्यमिति प्रसिद्धतरार्थेन शब्दान्तरेण प्रमाणशब्दस्यैवार्थं स्पष्टीकरोति। "द्व्यङ्गुलोत्कर्षम्" इति। द्व्योरङ्गुल्योः समाहारो द्व्यङ्गुलम्, "तत्पुरुषस्याङ्गुलेः" ५।४।८६ इत्यादिनाऽच्। तेन द्व्यङ्गुलेन खण्डिकाया देघ्र्यं परिच्छिद्यते॥
तत्त्व-बोधिनी
प्रमाणे च १६२७, ३।४।५१

द्व्यङ्गुलोत्कर्षमिति। द्वयोरङ्गुल्योः समाहारो द्व्यङ्गुलम्। "तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः" इत्च् समासान्तः। द्व्यङ्गुलेनोत्कृष्य। परिच्छित्येत्यर्थः। स्वल्पः खण्डः खण्डिका। ह्यस्वः खण्डः खण्डिकेति मनोरमायामुक्तम्। यद्यपि ह्यस्वशब्दो वामनपर्यायतया चेतनेष्वेव प्रायेण प्रयुज्यते, अल्पे ह्यस्वे इति पृथक्सूत्रस्वारस्यात्, तथापि ह्यस्वदीर्घत्यादिनिर्देशादचेतनेष्वपि क्वचिद्भवतीत्याहुः।