पूर्वम्: ३।४।५७
अनन्तरम्: ३।४।५९
 
सूत्रम्
नाम्न्यादिशिग्रहोः॥ ३।४।५८
काशिका-वृत्तिः
नाम्न्यादिशिग्रहोः ३।४।५८

द्वितीयायाम् इत्येव। नामशब्दे द्वितीयान्ते उपपदे आदिशेर् ग्रहेश्च धातोः णमुल् प्रत्ययो भवति। देशम् आचष्ते। नामग्राहम् आचष्टे।
न्यासः
नाम्न्यादिशिग्रहोः। , ३।४।५८

"आदिशेः" इति। "दिश अतिसर्जने" (धा।पा।१२८३)), आङ्पूर्वः॥